SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गर्भोपनिषत् । १५९ तेषां प्रत्येकं सप्त सप्त स्वरा भवन्ति तेषां षट्च षट्च रागिण्यो देश्यास्त्रियो भव न्तीति षट्त्रिंशत्ता ज्ञेयाः । ता यथा - " गौडी कोलाहली घाली द्रविडी मालवकौशिका । स्यादेव गान्धारी श्रीरागाच्च विनिर्गताः || अन्दोली कौशिकी चैव रागरी पुटमञ्जरी । गंगरी चैव देशाख्या वसन्तस्य प्रियास्त्विमाः ॥ भैरवी गुर्जरी चैव भाषा वेलावली तथा । कर्णाटी रक्तसिंहा च पञ्चमतो विनिर्गताः ॥ त्रिगुणा स्तम्भनीया च आभीरी कुकुभा तथा । विप्री राडी च सामेरी भैरवाच्च विनिर्गताः ॥ वङ्गारा मधुरा चैव कामोदा चोकसाटिका । कम्बुग्रीवा च देवाला मेघरागाद्विनिर्गताः ॥ की मौटकी डुम्बी नट्वा चैव प्रकीर्तिता । गान्धारी शूद्रमहलारी जाता नट्टनरायणात् " इति ॥ तेषां मिथुनानां योगोऽस्मिञ्शरीरे भवतीति षङ्गुणयोगयुक्तमित्यर्थः । इतिशब्द एतदर्थविवक्षार्थः । ननु पृव्यादीनां वृत्तयो धारणादयस्त्रयः पञ्चका उक्तास्ते किं सर्वे पुरुषप्रवृत्तिनिवृत्त्योरुपयुञ्जत आहोस्वित्कतिपय इति संशये निर्णयमाह - १ इष्टानिष्टा शब्दसंज्ञाणिधानादशविधा भवन्ति ॥ २॥ इष्टानिष्टेति । धारणादिष्विष्टानिष्टानि प्रवृत्तिनिवृत्तिहेतुभूतानि दशविधानि शब्दादीनि पञ्चाऽऽनन्दादीनि चैवं दशविधानि भवन्तीति भावः । धारणाद्युक्तिस्तु पृथिव्यादिसद्भावज्ञापनार्था । इष्टानिष्टत्वे द्वारमुक्तं शब्देति । शब्दप्रणिधानं शब्दप्रयोगजनकत्वं संज्ञाप्रणिधानं प्रत्ययजनकत्वं व्यवह्रियमाणाः प्रतीयमानाश्च दशैव शब्दादय इष्टानिष्टत्वेन प्रवृत्तिनिवृत्तिजनका इत्यर्थः । उभयत्र शेश्छन्दसि बहुलमिति शेरदर्शनम् ॥ २ ॥ शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुरः सप्तधातुकमिति कस्माद्यथा देवदत्तस्य द्रव्यविषया जायन्ते परस्परं सौम्यगुणवात्धो रसः । सप्तधातुकं कस्मादिति प्रश्न उत्तरविशेषणत्रयप्रश्नस्याप्युपलक्षणम् । समाधानं तु १ क. ख. ग. निष्ट' । २क. ग. प्रतिविधाः सप्तवि । ३ च द्रव्यादिवि । ४क. ख. ग. स्पररसो गु' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy