SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५२ नारायणविरचितदीपिकासमेता ऊरोरिति । उरुग्रहणमुत्तरोत्तरस्थानोपलक्षणम् । ऊरोमध्ये समनस्कं प्राणं संस्थाप्य मर्मणः प्राणस्य च विमोचनं कर्तव्यम् । अस्मिन्मर्मण्यहं स्थित इत्यभिमानं त्यक्त्वा निरालम्बस्तिष्ठेदित्यर्थः । एवं स्थानान्तरेप्वप्यूह्यम् । अथवा सर्वत्रात्र च्छेदनं व्यवधायकं नाड्यादि विदार्य स्थानान्तरे गमनम् । चतुरिति । ऊरोरुत्तरेषु चतुर्पु गुदशिश्ननाभिहृदयेषु स्थानेष्वभ्यासयोगेन नामरूपमर्मप्राणांश्छिन्देत् । अथवा चतुर्वार चतुरावृत्त्या प्रातमध्याह्ने सायं निशिथे च सर्वेषु स्थानेष्वभ्यासयोगेन । नन्वेवं छेदने देहाभिमानत्यागे च देहपातः स्यादत आह–अनभिशङ्कित इति । अयं भावः । न ह्यभिमानत्यागेन देहत्यागो भवति सुषुप्त्यादिषु तथा दर्शनाद्ध्यानिनां चिरकालदेहावस्थानस्मृतेर्न वा चक्रादिभेदनेऽपि शङ्केति ॥ १२ ॥ ततः कण्ठान्तरे योगी समूहं नाडिसंचयम् ॥ एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ १३ ॥ इडा रक्षतु वामेन पिङ्गला दक्षिणेन तु ॥ तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ॥ १४ ॥ तत इति । तदनन्तरं योगी कण्ठमध्ये नाडिसंचयं समूहं संधीकुर्वश्छिन्देदित्यनुषङ्गः । कियत्यो नाड्यः सन्तीत्यपेक्षायां मध्यमसंख्यामाह-एकेति । वरा उत्तमाः । इडा वामेन पिङ्गला दक्षिणेनेत्येव च वक्तव्ये रक्षतुशब्दयोगः शिष्याणामाशिषे विद्यासंप्रदायोच्छेदो मा भूदिति । वरं स्थानं सुषुप्त्याख्यं तदधिष्ठातारं पुंलिङ्गनिर्देशात् ॥ १३ ॥ १४ ॥ सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥ द्वासप्ततिसहस्राणि प्रति नाडीपु तैतिलम् ॥ किं तत्स्थानं कश्च तदधिष्ठातेत्यपेक्षायामाह-सुपुम्नेति । परे पुरुषे ब्रह्मणि लीना । विरजा निर्मला । ब्रह्मरूपिणी ब्रह्मस्थानत्वात् । सुषुम्नैव वरं स्थानं पर एव तदधिष्ठातेत्यर्थः । कथं भूता सुषुम्ना नाडीषु मध्ये द्वासप्ततिसहस्राणि नाडीः प्रति तैतिलमुत्सीष(च्छीर्ष) गण्डुकं यथा गण्डुकाधार उत्तमाङ्गं तिष्ठत्येवं सुषुम्नाधारे सर्वा नाड्यः स्थिता इत्यर्थः । "तैतिलो गण्डुके प्रोक्तस्तैतिलं करणान्तरे" इति विश्वः ॥ छिद्यन्ते ध्यानयोगेन सुषुम्नैका न च्छिद्यते ॥ १५ ॥ छिद्यन्त इति । ध्यानयोगेन ताश्छिद्यन्ते तासां छिन्नत्वादुच्चावचदेहेषूत्क्रान्तौ जीवस्य गमनं न भवति । यदुक्तम् - "तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति । एका सुषुम्ना न च्छिद्यते तस्याः परमसूक्ष्मत्वेन मनोविषयतायोग्यत्वान्मनोविषयस्यैव योगेन च्छेद्यत्वादृजुतयाऽप्रतिद्वंद्वित्वाच्च ॥ १५ ॥ १ छ. ति । सुषुम्नान्विते । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy