SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्षुरिकोपनिषत् । १५१ जङ्घाया अनुकीर्तनं यस्मिन्स तं जवारूपं मर्मध्यानस्थानं यत्र कथितम् । नयाग्रहणमङ्गुष्ठादेरप्युपलक्षणं तुल्यन्यायत्वात् । अङ्गुष्ठादिमूर्धान्तानां मर्मणामनुकीर्तनात् । मर्मजधानुकर्तनमिति पाठे यथा नापितेन क्षुरस्य तैक्ष्ण्यज्ञानाय जवाऽनुकृत्यते मुण्ड्यते तथाऽनेनाङ्गुष्ठादिमर्मस्थानानि नाडीमलानुकृन्तनेन निर्मली क्रियन्त इत्यर्थः ॥ तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ ११ ॥ तदिति । तच्छब्देन योग्यतावशान्मर्मजवादिगुणीभूतमपि परामृश्यते तत्सनामकं मर्मादिधारणाभिश्छिन्द्यादथवा व्यवहितमपि रूपं नाम तच्छब्देन परामृश्यते स एव । इममिन्द्रवज्रयोगं जिह्वायास्तालुमूले प्रवेशार्थ जिह्वामूलसूत्रकृन्तनरूपं हठयोगिनो वर्णयन्ति । तदुक्तं खेचर्याम् "तालुमूलं समुत्कृत्य सप्तवासरमात्मवित् । स्वगुरूक्तप्रकारेण मूलं सर्व विशोषयेत् ॥ स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय यतस्तेन रोममात्रं समुच्छिदेत् ॥ छित्त्वा सैन्धवपथ्याभ्यां चूर्ण तेन प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिदेत् ॥ एवं क्रमेण षण्मासं नित्ययुक्तः समाचरेत् । षण्मासादसनामूलशिरावन्धः प्रणश्यति" इति ॥ ततो दोहनमुक्तम् "अथ वागीश्वरी नाम शिरोवस्त्रेण वेष्टयेत् । शनैरुत्कर्षयेद्योगी कालवेलाविधानवित्" इति ॥ प्रवेशोऽप्युक्तः “यदा तु बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् । तदा ब्रह्मार्गलं देवि दुर्भेयं त्रिदशैरपि ॥ अङ्गुल्यग्रेण संघृष्य जिह्वां तत्र प्रवेशयेत्” इति ॥ ततो जिह्वया मथनाभ्यासात्फलमप्युक्तम् "एवं द्वादशवर्षान्ते संसिद्धिः परमेश्वरि । शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः" इति ॥ स हठतरः पन्थाः ॥ ११ ॥ ऊरोमध्ये तु संस्थाप्य मर्मपाणविमोचनम् ॥ चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥ १२ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy