SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतासूक्ष्म स्वरूपेण पुण्डरीके हृत्पद्मदहराख्यमाकाशं वेदान्तेषु छान्दोग्यादिषु पठ्यते । तद्यथा--"अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इति। तत्पुण्डरीकमनाहताख्यं कुण्डलीमनःप्राणाग्निभिभित्त्वा कण्ठं विशुद्धिचक्रस्थानमर्गलां भेत्तुमायाति जीवस्तां सुषुम्नां पूरयन्व्याप्नुवन्यतः सावधानः । पूरयन्दिवीति पाठे दिवीति निमित्तसप्तमी । फलमपि च निमित्तं भवति । दिवः प्राप्त्यर्थमूर्ध्वमारोहयेदित्यर्थः ॥ ९ ॥ __ मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥ मनसस्तु क्षुरं मनःप्रकृतिकं सुरं शास्त्रनिष्णातं मन एवेत्यर्थः । सुतीक्ष्णं तर्केण घर्षणोपलेन निशानस्थानीयया शास्त्रीयबुद्ध्या निर्मलम् ॥ पादस्योपरि मर्मज्य तद्रूपं नाम कुन्तयेत् ॥ १० ॥ - पादस्येति। ब्रह्मणः पादस्य श्रुत्यन्तरोक्तस्य पुंस्पादस्थानीयस्योपरि तदुपासनया। मर्मृज्य निर्मलीकृत्य । मृनेर्यङन्तात्क्त्वो ल्यप्छान्दसः । ब्रह्मणः पादा यथा-"तदेतचतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवाऽऽदिष्टं भवत्यध्यात्म चैवाधिदैवतं च" इति । अथ वा प्रणवस्य चत्वार्यक्षराण्येव जाग्रदादिरूपाणि पादाः । ओमित्येतदक्षरस्य पादाश्चत्वार इत्यथर्वशिखोक्तेस्तत्प्रसिद्धं रूपं भूतादिस्वरूपं नाम तद्वाचकः शब्दस्तद्वयं ब्रह्मणो लोमस्थानीय स्वरूपाबाह्यं कृन्तयेन्निवर्तयेत्तद्विषयां वृत्ति भूतशुद्धिमार्गेण त्यजेदित्यर्थः । इदमेव तस्य निकृन्तनं यदविषयीकरणं मनोमयत्वात्संसारस्य मनसा मुक्तस्य स्वरूपाभावात् । हठपक्ष उत्तरमार्गरोधकं सग्रन्थि नाडिचक्र छिन्द्यात् । तदुक्तम्---"नासादक्षिणमार्गवाहिपवनः प्राणोऽतिदीर्घाकृत श्चन्द्राम्भःपरिपूरितामृततनुः प्राग्घण्टिकायां तदा ॥ छिन्द्यात्कालविशालवह्निवशगान्धूरन्ध्रनाडीगणां स्तत्कार्यं कुरुते पुनर्नवतरं छिन्नद्रुमस्कन्धवत्" इति ॥ १० ॥ मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः॥ इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् ॥ किं कृत्वा निकृन्तेदत आह-मन इति । मनसोपायेन नित्यशोऽभीक्ष्णं योग जीवात्मपरमात्मनोरैक्यम् । पक्षान्तरे योगमुद्योगम् । आश्रित्य । कीदृशं योगमिन्द्रस्य वज्र इवेति । तथा प्रोक्तम्-यथेन्द्रो वज्रेणाभेद्यं भिनत्त्येवमयं योगोऽच्छेद्यवासनाजालमिन्द्रवज्रो विद्युत्तत्तुल्यया कुण्डल्या नाडीजालं छिनत्ति । पुनः कीदृशं मर्मणो १ घ. च. नोधारें। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy