SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Ach नारायणविरचितदीपिकासमेताषडङ्गलक्षणान्यमृतबिन्दावुक्तानि । यमनियमयोः पूर्वकाण्डादेव सिद्धत्वादिहानभिधानं न तु कापालिकवदनङ्गीकारात् । यमा यथा--" अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयाऽऽर्जवम् । क्षमा धृतिमिताहारः शौचं चैते यमा दश" ॥ नियमा यथा-"तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीमतिश्च जपो हुतम् ' इति ॥ अवस्थित आस्थित आरूढः । तदुक्तं गीतासु "शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलानिनकुशोत्तरम् " इति ॥ तथा तन्त्रेणाऽऽसनं पद्माद्यास्थित इत्यपि बोद्धव्यम् । तदुक्तं हठपदीपिकायाम् "हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । तत्कुर्यादासनस्थैर्यमारोग्यं चाङ्गपाटवम् " इति ॥ कर्मोऽङ्गानीवेति प्रत्याहार उक्तः । अत्रेन्द्रियाणीति शेषः । तदुक्तम्- "इन्द्रियाणां विचरतां विषयेषु स्वभावतः । बलादाहरणं तेषां प्रत्याहारः स उच्यते " इति ॥ अन्तरप्रत्याहारसिद्धये मन इति । हृदि हृत्पुण्डरीके । मनोनिरोधे दोषस्मरणात् । तदुक्तम्- "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते " इति ॥ २॥ मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ।।। पूरयेत्सर्वमात्मानं सर्वद्वारानिरुध्य च ॥३॥ मात्रेति । द्वादशमात्रा नादबिन्दावुक्ताः ‘घोषिणी प्रथमा मात्रा ' इत्यादिना तत्रैव द्रष्टव्याः । प्रणवेन शनैरुच्चारितेन वायु पूरयेत् । कीदृशेन मात्रा अकारोकारमकारार्धमानाख्याश्चतस्त्रस्तासां प्रत्येकं तिस्रस्तिस्रो मात्रा घोषिण्यादयो भौपत्यादिफला द्वादश तासां योगश्चिन्तनं यस्मिंस्तेन प्रणवेन पूरयेत् । यदा दशभिः प्रणवैः पूरणं तदाऽष्टाचत्वारिंशद्भिः कुम्भनं चतुर्विशतिभिश्च रेचनम् । यदा तु षोडशभिः पूरणं तदा चतुःषष्टिभिः कुम्भनं द्वात्रिंशद्भी रेचनम् । अष्टभिर्यदा पूरणं तदा द्वात्रिंशद्भिः कुम्भनं षोडशभी रेचनमिति विवेकः । सर्वमात्मानं न तु कतिपयाङ्गनिरोधेनोपवि. शेत्तथा सति वायुवैषम्यं स्यात् । सर्वद्वारान्सर्वद्वाराणीत्यर्थः । अधोद्वारमाकुञ्चन. मूलबन्धाभ्यामूर्ध्वद्वाराणि जालंधरबन्धनेन ॥ ३ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy