________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः।
क्षुरिकोपनिषत् ।
नारायणविरचितदीपिकासमेता।
क्षुरिका शस्त्रिका प्रोक्ता तत्तुल्या धारणा यतः ।। तद्वाचकस्त्रिखण्डोऽयं क्षुरिकाग्रन्थ उच्यते ॥
ॐ क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये ॥
यां प्राप्य न पुनर्जन्म योगयुक्तः स जायते ॥ गुरुतः प्राप्तविद्यस्य तत एव लब्धज्ञानप्रणवमन्त्रस्य षडङ्गयोगेऽधिकार इति तदर्थमुत्तरो ग्रन्थः- रिकामित्यादि । क्षुरिकां क्षुरिकामिव संसारोच्छित्तये शस्त्रिका. मिव । रूपकम् । धारणामात्मनि चित्तावस्थानलक्षणाम् । उक्तं च योगयाज्ञवल्क्ये
"शमादिगुणयुक्तस्य मनसः स्थितिरात्मनि ।
___ धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभिः" इति ॥ न पुनर्जन्म भवतीति शेषः । स धारणावान्कुतश्चिदपराधाद्यदि योगभ्रष्टो भवति तर्हि जन्मान्तरे योगयुक्त एव जायत इत्यर्थः । योगश्चित्तवृत्तिनिरोधः । “तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्” इति स्मृतेः ॥
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ॥ १ ॥ वेदेति । इदं योगस्वरूपं वेदेन तत्त्वार्थेन परमार्थत्वेन विहितं विधिविषयीकृतम् । स्वयंभुवा ब्रह्मणा यथोक्तं यथा वर्तते तथोक्तं न विसंवादीत्यर्थः । तदुक्तं योगयाज्ञ-- वल्क्येन-"वक्ष्यामि योगसर्वस्वं ब्रह्मणा कीर्तितं पुरा” इति । धात्रोक्तं परमेष्ठिनेति च ॥१॥
निःशब्दं देशमास्थाय तत्राऽऽसनमवस्थितः ॥
कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ॥२॥ योगस्वरूपं साधयितुं षडङ्गान्याह-निःशब्दमिति । यदुक्तम्-"कान्तारे विजने देशे फलमूलोदकान्विते ।
तपश्चरन्वसेन्नित्यम् ” इति ।
१९
For Private And Personal