________________
Shri Mahavir Jain Aradhana Kendra
१४४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कौषीतक्युपनिषत् |
*ऋतं वदि० वक्तारम् । मयि भर्गो मयि महो वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमा विराविर्मर्योऽभूर्वेदसा मत्साssणीर्ऋतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यन इळा नम इळा नम ऋषिभ्यो मत्रको मन्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि । अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥ १ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति ऋग्वेदान्तर्गतकौषीतकि ब्राह्मणारण्यकोपनिषदि द्वितीयोऽध्यायः ॥ २ ॥
कौषीतकिब्राह्मणारण्यकक्रमेण चतुर्थोऽध्यायः ॥ ४ ॥ कौषीतकिब्राह्मण आत्मविद्या गुप्ताऽपि सम्यक्प्रकटीकृतेयम् ॥ लोकोपकाराय मया श्रुतीनां पदावलोकैकपरेण नित्यम् ॥ १ ॥ या अथर्वाङ्गिरसश्च तद्वद्ये वा प्रसिद्धा इह लोकमध्ये || अतो मयाऽकारि पदावलोकस्तेषां कृतेऽस्मिशिव एतु तुष्टिम् ॥ २ ॥ गङ्गादयः शीतलनीरपूरा नैवाऽऽश्रिताश्चेत्सरितोऽह्यभाग्यैः ॥ न्यूनत्वमासां किमिवात्र भूयान्ममापि तद्वत्कृतयः प्रवृत्ताः ॥ ३ ॥ आत्मावबोधाय मदुक्तिवारां प्रवृत्तिरेषोपनिषत्समूहे ॥ विबुध्य सन्तः सततं स्वचित्तं प्रक्षालयन्तु प्रविमुक्तिकामाः ॥ ४ ॥ सर्व न सर्वस्य हितं प्रियं वा व्यवस्थितं येन लभामहेऽदः ॥ प्रिया हितास्तेन विमुक्तिभाजां पदावलोका विहितास्ततोऽमी ॥ ५ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यश्रीशंकरानन्दभगवतः कृतौ कौषीतकिब्राह्मणोपनिषद्दीपिकायां द्वितीयोऽध्यायः ॥ २ ॥
समाप्तेयं सदीपिका कौषीतक्युपनिषत् ॥
* इयं शान्तिः क. ग. पुस्तक योनोपलभ्यते ।
For Private And Personal