________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२० विंशतितमं खण्डम् ]
कौषीतक्युपनिषत् ।
१४३
विचार्य भवति तादृशमङ्गीकृत्योक्तं यथा श्रेष्ठी स्वैरेवं वेत्यादि । अस्मिन्पक्षे यथा वा श्रेष्ठिनं स्वा भुञ्जन्तीत्यस्यैवमात्मानं प्राणा भुञ्जन्त इति । इदं बहिरेवावगन्तव्यम् ॥ अस्याऽऽत्मनो ज्ञानेन कस्य किं फलं जातमिति बालाकिशङ्कां व्यावर्तयितुमजातश•
घुराह—
Acharya Shri Kailashsagarsuri Gyanmandir
स यावद्ध वा इन्द्र एतमात्मानं न विजज्ञे तावदेनमसुरा अभिबभूवुः स यदा विजज्ञेऽथ हत्वाऽसुरान्विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पेरीयाय तथो एवैवं विद्वान्सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद य एवं वेद || २० ॥
*
स प्रसिद्धः प्रतर्दनस्य गुरुः । यावद्यावन्तं कालं ह किल श्रुतमस्माभिः पूर्वेभ्य इत्यर्थः । वै प्रसिद्धः प्रजापतिशिष्य एकाधिकशतवर्षब्रह्मचारी ब्रह्मविद्यार्थम् । इन्द्रः परमैश्वर्यसंपन्नस्त्रिलोकीपतिः । एतं मयोक्तं सर्वेन्द्रियोपजीव्यम् । आत्मानमानन्दात्मानं न विजज्ञे विशेषेणायमसाविति न ज्ञातवान् । तावत्तावन्तं कालम् । एनमात्मज्ञानशून्यमिन्द्रम् । असुराः शास्त्रनिषिद्धार्थप्रवृत्ता वागादयो विरोचनादयो वाऽभिव भूवुरभिभवं पराभवं चक्रुः । सः, असुरैरभिभूतो यदा यस्मिन्काले 'य आत्माऽपहतपाप्मा विज विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वलोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति" इति प्रजापतिवाक्यं सभायां श्रुत्वाऽनन्तरं विजज्ञे य एषोऽक्षिणि पुरुषो दृश्यत इत्यादेः प्रजापतेरुपदेशाद्विशेषेणायमसाविति ज्ञातवान्साक्षात्कृतवानित्यर्थः । अथ तदा हत्वा निपात्यासुरानुक्तान्विजित्य विजयं प्राप्य त्रिलोकीं स्वाधीनां विधायेत्यर्थः । सर्वेषां निखिलानां देवानामग्न्यादीनां श्रैष्ठयं श्रेष्ठत्वं प्राधान्यम् । स्वाराज्यं स्वराजस्य भावोऽप्रतिहतेच्छत्वम् । आधिपत्यं गर्भदासानिव सर्वानधिष्ठाय पालयितृत्वमाधिपत्यं परीयाय सर्वतो गतवान् । तथो एव तद्वदेव न त्वन्यथा । एवं विद्वानवस्थात्रयातीतः प्राणादिभिराश्रयणीयोऽसङ्गोदासीनस्वभाव आकाशवत्सर्वगतोऽपि शरीरे हृदये च सामान्यविशेषाभ्यामुपलभ्यमान चैतन्योऽपगतसर्वधर्म आनन्दात्माऽहमस्मीत्येवंज्ञानवान् । सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां त्रैष्ठयं स्वाराज्यमाधिपत्यम् । भूतानां स्थिरजङ्गमानाम् । व्याख्यातमन्यत् । पर्येति प्राप्नोति । यः शमादिसाधनचतुष्टयसंपन्नः । एवं वेद, इन्द्रवदुक्तमात्मानं जानते । य एवं वेद । व्याख्यातम् । वाक्याभ्यास उपनिषत्समात्यर्थः ॥ २० ॥
१ ख. पर्यंत्तयो ।
For Private And Personal