________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४२
शंकरानन्दविरचितदीपिका समेता [२ द्वितीयाध्याये
णम् । आत्मानमस्मत्प्रत्ययव्यवहारयोग्यं वस्तुत आनन्दात्मानम् । एतेऽपगताधिदैवभेदा अध्यात्मं प्रत्यक्षा इव । आत्मानो वागाद्याः । अन्ववस्यन्ति, आत्मनो निश्चयमनु पश्चान्निश्चयं कुर्वन्ति ॥
तत्र दृष्टान्तमाह
यथा श्रेष्ठिनं स्वाः ।
यथा दृष्टान्ते । श्रेष्ठिनं श्रेष्ठत्वं प्रधानत्वं स गुणो यस्यास्ति स तु श्रेष्ठी तं प्राधान्यवन्तं कुटुम्बिनमित्यर्थः । स्वाः स्वसंबन्धिनो ज्ञात्युपलक्षिता उपजीवकाः । अन्ववस्यन्तीत्यनुवर्तते ॥
निश्चये प्राधान्यमुक्त्वा भोगेऽपि प्राधान्यं वक्तुं दृष्टान्तमाह
तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते ।
तत्तत्र भोगप्राधान्ये । यथा दृष्टान्ते । श्रेष्ठी कुटुम्बी स्वैर्ज्ञात्यादिभिः सह भुनेऽन्नमत्ति । यथा वा यद्वद्वाशब्दः प्रकारान्तरेण दृष्टान्तार्थः । श्रेष्ठिनं प्रधानं कुटुम्ब स्वा ज्ञात्याद्या भुञ्चन्त्यदन्ति । एवमेवानेन प्रकारेण न त्वन्यथा । एष प्रज्ञात्मा । व्याख्यातम् । ज्ञानक्रियाशक्त्युपाधिरित्यर्थः । एतैः प्रतिप्राणिव्यवस्थितैः । आत्मभिरात्मशब्दप्रत्ययालम्बनैर्वागादिभिः सह । भुङ्क्तेऽत्ति । अथ वा दृष्टान्तदाष्टन्तिकयो - स्तृतीया करणार्था । न हि निर्मनुष्यकुटुम्बिनो द्रव्यवतोऽपि भोगः संभवति परैर्द्रव्यापहारादेः संभवात् । एवमसङ्गोदासीनस्य चितिस्वभावस्याऽऽत्मनोऽपि विना करणादिकं न भोगः । यथा श्रेष्ठी स्वैर्व्याख्यातम् | उत्पन्ने कार्ये प्रधानकुटुम्बी येन प्रकारेण स्वैर्ज्ञातिभिः सह पर्यालोच्यान्ववस्यत्येवमेतैरात्मभिरयमात्मेति बहिरेवावगन्तव्यम् ॥ तमेतमात्मानमित्यस्य प्रपञ्चार्थमाह
एवं वै तमात्मानमेत आत्मानो भुञ्जन्ति ।
एवं वा, अनेनैव यथा श्रेष्ठिनं स्वा इति वक्ष्यमाणेन प्रकारेण । एतमिन्द्रियाणामधिष्ठातारमात्मानमेत आत्मानो भुञ्जन्ति । यथा श्रेष्ठिनं स्वा व्याख्यातम् । अत्राऽऽद्यन्तपर्याययोः सामान्यविशेषाभ्यां पुनरुक्तिपरिहारः । अथवा श्रेष्ठिनं स्वा इत्यस्य दान्तिक एवं वा इत्यादिः । न त्वात्मनो निश्चयमन्तरेणोपभोगः कर्तुं शक्यः । अस्मिन्पक्षे यथा श्रेष्ठी स्वैर्यथा श्रेष्ठिनं स्वा इति वचनद्वयं निगमनार्थत्वेन व्याख्येयम् । अथवा निश्चयो व्यात्मको भवति । आपत्कालीनोsनापत्कालीनश्च । तत्रानापत्कालीनः प्रधानत्रुद्ध्यनुसारी निश्चयो मृगयायां मन्त्रिणा तादृशं हृदि निधाय तमेवमात्मानमिति प्रथममुक्तम् । आपत्कालीनस्तु बन्धुभिः सह कुटुम्बिनः कुटुम्बिना सह बन्धूनां च १ ख. एवमेवै' । २ ख त आत्मान एतमात्मानं भु ।
For Private And Personal