________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२० विंशतितम खण्डम् ] कौषीतक्युपनिषत् ।
१४१ रन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो
देवा देवेभ्यो लोकाः ॥ १९ ॥ यदा यस्मिन्काले । सुप्तः स्वमं न कंचन पश्यतीत्यादि लोका इत्यन्तं व्याख्यातम् । अयमर्थः । नाडीद्वारा पुरीतद्वेष्टनेऽनेकनाडीकारणे हृदयपुण्डरीके स्थिताकाशान्तर्वतिक्रियाशक्त्युपाधावानन्दात्मनि सुषुप्तिं प्राप्य तत एव जागरणमागच्छति स उपगताधाराधेयभेदो विज्ञानानन्दस्वरूपो ब्रह्मशब्दाभिधेयो न तु भवदभिमतः प्राणादिरधिदैवतमथाध्यात्म चेति ॥ १९ ॥ __कथमसौ ब्रह्मशब्दाभिधेय उपलब्धुं शक्यत इति बालाकेर्डदयगतां शङ्कामपाकरिष्यन्दृष्टान्तपुरःसरमाह
तद्यथा शुरः क्षुरधानेऽवहितः स्यात् । तत्तत्रोपलब्धौ दृष्टान्तः । यथा दृष्टान्ते । शुरस्तीक्ष्णाग्रः प्रसिद्धः क्षौरकर्मणि । क्षुरधाने क्षुरो धीयते यस्मिन्पात्रे तत्क्षुरधानं तस्मिन्नवहितः प्रक्षिप्तः स्याद्भवेत् । अयं हृदयपुण्डरीके शरीरैकदेश उपलब्धौ दृष्टान्तः ।। इदानीं सर्वशरीरोपलब्ध्यर्थं दृष्टान्तमाह
विश्वभरो वा विश्वभरकुलाय एवमेवैष प्रज्ञ आत्मेदंशरीरमात्मा
नमनुमविष्टः। विश्वंभरोवा विश्वंभरोऽग्निः । वाशब्दो दृष्टान्तान्तरे । विश्वंभरकुलायेऽग्निनोडेऽरण्यादौ । एवमेवाननैव प्रकारेण । एष ब्रह्म ते ब्रवाणीति यो भवता प्रकृतः । प्रज्ञो नित्यस्वयंप्रकाशप्रज्ञायुक्तः । आत्माऽस्मत्प्रत्ययव्यवहारयोग्यः । इदंशरीरमिदंशरीरे भवमेतच्छरीरस्थेन्द्रियमित्यर्थः । आत्मानमात्मशब्दप्रत्ययावलम्बनम् । अनुप्रविष्टः सृष्टमनु प्रवेशं कृतवान् ।। प्रवेशावधिमाह
आ लोमभ्य आ नखेभ्यः। आ लोमभ्य आ नखेभ्यः । लोमनखपर्यन्तं नखाग्रशरीरबहिर्गतकेशान्मुक्त्वा समग्रे शरीर इत्यर्थः ॥
स्वप्नसुषुप्तिजागरणेषु प्राणाव्यतिरिक्तमात्मानमभिधाय तस्य च सर्वस्मिञ्शरीरे हृदये च सामान्यविशेषाभ्यां व्याप्तिं चेदानीं तस्यैव स्वामित्वं विवक्षुदृष्टान्तपुरःसरमाह
तमेतमात्मानमेत आत्मानोऽन्ववस्यन्ति । तमा लोमभ्य आ नखेभ्यः शरीरे सामान्यविशेषाभ्यां प्रविततम् । एतं बुद्धिसालि.
१ ख. 'काः । स एष प्राण एव प्रज्ञात्मेदं शरीरमात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्यस्तद्य। २ ख. "नेवोपहितो विश्वं' । ३ ख. ग. प्रज्ञात्मे ।
For Private And Personal