________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४०
शंकरानन्दविरचितदीपिकासमेता - [२ द्वितीयाध्याये
उक्तः प्रश्नः पुरुषविषयेऽपरोऽवस्थाविषये । पुरुषशयनयोर्देशं पृष्ट्वा पुरुषस्याssगमनदेशं पृच्छति
-
कुत एतदागा३दिति ।
कुतः कस्माद्देशात् । एतज्जागरणं प्रत्येतदागमनं वा । आगादागतवान्प्लुतिविचारार्था । विचार्य कथयेत्यर्थः । इत्यनेन प्रकारेण प्रश्नमकरोदिति शेषः ॥
तत उह बालाकिर्न विजज्ञे तं होवाचाजातशत्रुर्यत्रैष एतद्वालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागादिति ।
तत उ अपि राज्ञा पृष्टं ह किल बालाकिबलाकस्यापत्यं न विजज्ञे न विज्ञातवान् । तमज्ञातस्वप्रश्नं बालाकिम् । होवाच० एतदागादिति । व्याख्यातम् ॥ स्वयं तद्देशविशेषमाह राजा --
हिता नाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तथथा सहस्रधा केशो विपाटितस्तावदण्ण्यः पिङ्गलस्याणिना तिष्ठन्ति । हिता नाम प्राणिनां हितकारणाद्धिता इत्यभिधानम् । हृदयस्य हृदयपुण्डरीकसंबन्धिन्यो हृदयपुण्डरीकान्निर्गता इत्यर्थः । नाड्यः शिराः । हृदयाद्धृदयपुण्डरीकानिर्गत्य पुरीततमात्रं हृदय वेष्टनमभिप्रतन्वन्ति सर्वतः प्रकर्षेण विस्तारयन्ति वेष्ट - यन्तीत्यर्थः । तद्यथा यावत्परिमाणा इत्यर्थः । सहस्रधा केशो विपाटितः । बालः सहस्रप्रकारेण विविधं पाटितः केशस्य सहस्रांश इत्यर्थः । तावत्तत्परिमाणा अण्व्यः सूक्ष्माः पिङ्गलस्य चित्रवर्णस्याणिनाऽणुतमेन रसेनातिसूक्ष्मेणेत्यर्थः । तिष्ठन्ति पूर्णा वर्तन्ते ॥
सामान्यतो वर्णमुक्त्वा विशेषेण वर्णानाह
For Private And Personal
1
शुक्रस्य कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति । शुक्लस्य श्वेतस्य । अणिम्नेति सर्वेषु वर्णेष्वनुवर्तते । कृष्णस्य कालस्य पीतस्य सुवर्णवर्णस्य लोहितस्य रक्तस्येत्येवंप्रकारस्य वर्णान्तरस्याप्यणिम्ना रसेन पूर्णास्तिष्ठन्ति । तासु हृदयवेष्टनपुरीतत्प्रतिष्ठितासु हृदयगमनमार्गभूतासु सामीप्येन तदा भवति तस्मिशयनकाले वर्तते । न स्वप्नोऽन्यनाडीषु वर्तमानस्य भवतीत्यर्थः ॥ स्वप्नस्थानमभिधाय विस्तृतं सुषुप्तस्थानं सजागरणमाह
T
यदा सुप्तः स्वमं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वे रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाऽर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विमतिष्ठे
१ ख. ग. पुरुषस्य । २ ख. 'तस्य च ता' ।