________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्षुरिकोपनिषत् । उरोमुखकटिग्रीवं किंचिहृदयमुन्नतम् ।
प्राणान्संचारयेत्तस्मिन्नासाभ्यन्तरचारिणः ॥ ४ ॥ उरोमुखकटिग्रीवमुन्नतं धारयेदिति शेषः । तदुक्तं गीतासु-" समं कायशिरोग्रीवं धारयन्नचलं स्थिरः” इति । हृदयं किंचिदुन्नतं धारयन् । अनेन जालं. धरबन्धः सूचितः । स यथा-"कण्ठमाकुञ्ज्य हृदये स्थापयेच्चिबुकं दृढम् ।
बन्धो जालंधराख्योऽयममृताक्षयकारकः" इति ॥ संचारयेत्पूरकमात्राभिस्तस्मिन्हृदये । नासेत्यनेन मुखेन पूरकरेचकौ निषिद्धौ मुखेनैव पूरणे शिरोनैर्मल्यासिद्धेः ॥ ४ ॥
भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥५॥ भूत्वेति । प्राणस्तत्र सर्वशरीरे गतः प्रविष्टो भूत्वा तिष्ठतीति शेषः । एतेन कुम्भक उक्तः । स च पूरकमात्रापेक्षया चतुर्गुणाभिः कार्यः । अथ रेचकमाह-शनैरिति । समुत्सर्जनं च पूरणापेक्षया द्विगुणाभिर्मात्राभिः । शीघ्रोत्सर्जने विमार्गे वायुगच्छेत् ॥५॥
स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः। द्वे तु गुल्फे प्रकुर्वीत जो चैव त्रयस्त्रयः ।।
द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ॥ ६॥ स्थिरेति । स्थिराभिरेकरूपाभिर्मात्राभिर्दृढ़ स्थिरं प्राणं कृत्वा केवलकुम्भके सिद्ध इत्यर्थः । ततो धारणाभिः प्रत्याहारमभ्यसेदित्याह–अङ्गुष्ठ इत्यादिना । अङ्गुष्ठेत्यादौ जातावेकवचनम् । अङ्गुष्ठयोर्मुल्फयोर्जधयोरित्यादि बोद्धव्यम् । अङ्गुष्ठयोर्धारणे कुर्वीतेत्यन्वयः। द्वे तु धारणे कुर्यादित्यर्थः । त्रयस्त्रय इति । जो प्राप्याऽऽधन्तमध्येषु निरोधाः कर्तव्या इति शेषः । जानुनी आद्यन्तयोः । ऊरुभ्यां साधनाभ्यामूर्वोरपि तथा द्वे इत्यर्थः । गुद इति । मूलाधारे स्वाधिष्ठाने वाऽऽद्यन्तमध्येषु निरोधाः ॥ ६॥
वायोरायतनं चात्र नाभिदेशे समाश्रयेत् । तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्खता ।।
अणुरक्ताश्च पीताश्च कृष्णास्ताम्रविलोहिताः ॥७॥ वायोरिति । अत्र नाभिदेशे वायोरायतनं मुख्यस्थानमस्ति तच्च धारणया समाश्र
१ ङ. 'न्संधार' । २ ग. 'येन्नित्यं नासा । ङ. 'येद्योगी नासा । ३ ग. त्वा त्यङ्गु । ४ क. 'फे च कु । ख. ङ. 'ल्फे तु कु ।
For Private And Personal