SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३८ शंकरानन्दविरचितदीपिकासमेता- [ २ द्वितीयाध्याये राजोक्तिमाहएतावन्नु बालाका३ इत्येतावद्धीति होवाच बालाकिस्तं होवा चाजातशत्रुर्मषा वै किल मा समवादयिष्ठा ब्रह्म ते ब्रवाणीति। एतावदियत्प्रमाणम् । नु वितर्के । उतान्यदपीत्यर्थः। बालाका३३ । हे बालाके। प्लुतिनिर्भर्त्सनार्था । यद्यप्ययोग्यं ब्राह्मणस्य भर्त्सनं तथाऽपि गर्वपरिहारार्थ क्रियमाणं न विरुद्धम् । गर्वो हास्य महान्तं पुरुषार्थं नाशयन्कण्टकः कण्टकोद्धरणं च राज्ञा करणीयमिति न्यायात् । इत्यनेन प्रकारेण राजोवाचेत्यन्वयः । एवं राज्ञोक्तेऽपगतगर्वः । एतावद्धि, इयदेवोक्तं नातोऽधिकमहं किंचिद्ब्रह्म वेद्मीति शेषः । इति होवाच बालाकिः, एवं किलोक्तवान्बालाकस्यापत्यम् । तमपगतगर्वं बालाकिम् । होवाचाजातशत्रुः । व्याख्यातम् । मृषा वै किल मा मामजातशत्रुम् । मृषा वै वितथमेव किल निश्चितम् । समवादयिष्ठा ब्रह्म ते ब्रवाणीति । व्याख्यातम् ॥ स होवाच । एवमुक्त्वा पुनर्बालाकेरग्विदनस्य लज्जाजडस्यापगतगर्वस्यानुग्रहार्थ सोऽजातशत्रुई किलोवाचोक्तवान्बालाकिं प्रति ॥ राजोक्तिमाहयो वै वालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य इति तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेवे तत्स्यायत्क्षत्रियो ब्राह्मणमुपनयेत् । यस्त्वया प्रस्तावितो ब्रह्मत्वेन । वै प्रसिद्धः सत्यज्ञानादिलक्षणः । बालाके हे बालाके । एतेषामादित्यादीनां पुरुषाणां त्वयोक्तानां पुरुषाणां कर्तोत्पादकः । यस्य वा यस्य प्रसिद्धस्य वेदान्तेषु । वाशब्दः पूर्वोक्तव्युदासार्थः । किमल्पाभिधानेनेत्यर्थः । एतद्भुतभौतिकरूपं विश्वम् । कर्म क्रियत इति कर्म । येनोत्पाद्यत इत्यर्थः । स त्वदुक्तपुरुषैः सह विश्वकर्ता । वै प्रसिद्धः सत्यज्ञानादिलक्षणः । वेदितव्यः साक्षात्करणीयः श्रवणाद्युपायैः । इत्यनेन प्रकारेण स होवाचेत्यन्वयः । तत उ तत एव राजोक्तेरनन्तरं ह किल बालाकिर्बालाकस्यापत्यं ब्रह्म जिज्ञासुः समित्पाणिः समित्करः प्रतिचक्रमे प्रतिचक्राम राजानं प्रति ब्रह्मोपदेशार्थं गृहीतोपायन आजगामेत्यर्थः । वाचा चैवं व्याहरन् । उपायानीति यदि भवतोऽनुज्ञा तदा भवन्तं गुरुत्वेन समीप आगच्छामीत्यनेन प्रकारेण प्रतिचक्रामेत्यन्वयः । तमपगतगर्वं ब्राह्मणं दीनतमा - - . १ ख. ग. वदिति । २ ख. ग. खलु । ३ क. संवदिष्टा । ४ ग.ति तं स । ५ क. व स्याद्य। ६ ख. तन्मन्ये यत्क्ष। ७ ख, ग. 'येतेहि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy