SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६ षोडशं खण्डम् ] कौषीतक्युपनिषत् । स्मिन्संवादयिष्ठा यमो राजेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्व हास्मा इदं श्रेष्ठयाय यम्यते ।। १६ ॥ सुषुप्तः प्राज्ञः प्रज्ञया नित्ययुक्तः प्राणोपाधिकः । आत्माऽऽत्मशब्दप्रत्ययालम्बनम् । येन प्राज्ञेनाऽऽत्मना सहैकतायै । एतत्सुप्त एतत्स्वप्नदर्शनरूपं शयनं प्राप्तः स्वप्न्यया चरति स्वप्नेन गच्छति स्वप्नाननुभवति । सर्व निखिलं ह प्रसिद्धम् । अस्मा अस्योपासकस्य । इदं प्रत्यक्षादिप्रमाणैरुपलभ्यमानम् । श्रेष्ठयायाधिकत्वाय । यम्यते नियमेन प्रवर्तत इत्यर्थः ॥ १६ ॥ स होवाच बालाकिर्य एवैष दक्षिणेऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा नाम्न आत्माऽग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ १७ ॥ दक्षिणेऽक्षन्दक्षिणेऽक्षणि दक्षिणे चक्षुषि । नाम्न आत्मा वर्णात्मकशब्दस्य कारणं स्वरूपम् । ज्योतिष आत्मा प्रकाशमात्रस्य स्वरूपम् । एतेषां नामाग्निज्योतिषां सर्वेषां निखिलानामात्मा भवति स्वरूपं भवति ॥ १७ ॥ स होवाच वालाकिर्य एवैष सम्येऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः सत्यस्याऽऽत्मा विद्यत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ १८ ॥ सव्येऽक्षन्सव्येऽक्षणि वामे चक्षुषि । सत्यस्य प्राणरूपस्याऽऽत्मा स्वरूपम् । विद्युत आत्मा सौदामन्याः स्वरूपं तेजस आत्मा ज्योतिर्मात्रस्य स्वरूपम् । एतेषां सत्यविद्युतेजसां सर्वेषामात्मा भवति सर्वेषां स्वरूपं भवति । शेषं पर्यायपञ्चदशकेऽपि प्रथमपर्यायवद्व्याख्येयम् । इतिः पुरुषोपदेशपरिसमाप्त्यर्थः ॥ १८ ॥ तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुः । ततः सव्ये चक्षुषि पुरुषस्य निराकरणानन्तरम् । उ एव तदनन्तरमेवे । ह किल । बालाकि लाकस्यापत्यं तूष्णीमास मौनी बभूव । तं तूष्णीभूतं बालाकिम् । होवाचाजातशत्रुः । व्याख्यातम् ।। १ ख. 'ष शरीरे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रजापतिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति । स होवाच बालाकिर्य एवैष दक्षिणेऽक्षिणि पुरु । २ ख. वाच । ३ ख. 'व्येऽक्षिणि पु । १८ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy