________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ द्वादशं खण्डम् ] कौषीतक्युपनिषत् । अपराजितसेनागुणफलमाह
अन्यतस्त्यजायी भवति ॥ ८॥ अन्यतस्त्यजायी, अन्यतस्त्योऽन्यतो भवो वैरी तज्जयलक्षणं शीलमस्येत्यन्य. वस्त्यजायी ॥ ८ ॥
स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिहैवान्वेष भवति ॥ ९॥ अग्नौ जातवेदसि । विषासहिर्विविधसहनशीलो दुःसहो वाऽन्यैः । हैवान्वेष भवति । ह प्रसिद्धम् । एष एव न त्वन्यः । अनूपासनादेष उपासको भवति ॥९॥
स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठों नाम्न आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न आत्मा भवतीत्यधिदैवतमथाध्यात्मम् ॥ १० ॥ अप्सु जलेषु । नाम्नः स्वात्मनाम्नः । आत्मा स्वरूपं कारणं वा भवति । न च शाखान्तरप्रतिरूपगुणेन विरोधः । अस्ति हि सादृश्यं नाम्नो वस्तुना । तथा हि । घट इति वस्तु घट इति नामेति वाऽत्यन्तसादृश्योपलम्भात् । इत्यधिदैवतमनेन प्रकारेण दैवतमधिकृत्योक्तमधिदैवतम् । अथाधिदैवतोपासनानन्तरम् । अध्यात्ममात्मानं शरीरमधिकृत्योच्यमानमुपासनमध्यात्मम् ॥ १० ॥
स होवाच बालाकिर्य एवैष आदर्श पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः ॥ ११ ॥ आदर्श दर्पणे भास्वरे द्रव्य इत्यर्थः । प्रतिरूपः सदृशो रोचिप्णुरित्यर्थः । प्रतिरूपो हैवास्य, उपासकस्य सदृशः प्रसिद्ध एव प्रजायाम् । प्रजायां संताननिमित्तम् । आजायते पुत्रः स्पष्ट उपपद्यते । नाप्रतिरूपो न विलक्षणः ॥ ११ ॥
स होवाच वालाकिर्य एवै प्रतिश्रुत्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुमा मैतस्मिन्संवादयिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते ।
१ ख. हिर्ह वा अन्येषु भ। २ ख. ग. 'ठास्तेजस आ। ३ ख. ग. "स्ते तेजस आ" । ४ ख. ष च्छायायां।
For Private And Personal