________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३४ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्यायेविद्युति सौदामनीमण्डले । तेजस आत्मा तेजस्वीत्याद्यभिमानः ॥ ५ ॥
स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः शब्दस्याऽऽत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्याऽऽत्मा
भवति ॥६॥ स्तनयित्नौ घमण्डले । शब्दस्याऽऽत्मा ध्वनिवर्णभेदभिन्नस्य कारणं स्वरूपं वा ॥ ६ ॥
*सहोवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः पूर्णमप्रवर्ति ब्रह्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया पशुभिः। आकाशे गगनेऽव्याकृते वा । पूर्णमप्रवर्ति क्रियाशन्यं ब्रह्म बृहत्सर्वस्मादप्यधिकं पूर्यते प्रजया पशुभिः । पूर्ण गुणोपासनफलं पुत्रगवादिपरिपूर्तिः ॥
अप्रवर्तिगुणोपासनफलमाह___नो एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ७॥ नो एव स्वयं० प्रवर्तते । शतसंवत्सरकालात्पूर्वं स्वयमुपासको नो एव प्रवर्तते प्रमीयते । अस्योपासकस्य प्रजा तनयादिका । पुरा कालान्न प्रवर्तत इत्यनुवर्तते ॥ ७॥
स होवाच बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता
सेनेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते । वायौ पवने । इन्द्रः परमैश्वर्यसंपन्नः । वैकुण्ठो विगता कुण्ठा परेण निवारणा यस्मात्स विकुण्ठः । विकुण्ठ एव वैकुण्ठः । अपराजिता सेना न परैः पराजिताsपराजिता सेना ॥ इन्द्रगुणफलमाह
जिष्णुई वा। जिष्णुई वा जयनशीलः । ह प्रसिद्धौ वाशब्द एवकारार्थः ॥ वैकुण्ठगुणफलमाह
अपराजयिष्णुः। अपराजयिष्णुः परतुमशक्यशीलः ॥
* एतस्यानन्तरखण्डस्य च व्यत्यासेन पाठः ख. पुस्तके । १ ख. 'शुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ॥ ८ ॥ स ।
For Private And Personal