________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कौषीतक्युपनिषत् । प्रसिद्ध एव न त्वन्यः । एष मादृशस्य प्रत्यक्षः । आदित्ये, आदित्यमण्डले । पुरुषः पुरुषाकारश्चेतनः । तमेवोक्तस्थानस्थमेव न त्वन्यम् । अहं गार्यो ब्रह्मवित् । उपासे विजातीयप्रत्ययशून्येन सजातीयप्रत्ययप्रवाहेण ब्रह्मेति साक्षात्कुर्वे । इत्यनेन प्रकारेणो. वाचेत्यन्वयः । तमेवं ब्रुवाणं गायँ ह किलोवाचोक्तवान् । अजातशत्रुरेतन्नामा हस्तसंज्ञया निवारयन् । मा मा, आवाधायां द्विवचनम् । एतस्मिन्नुक्तपुरुषे । उक्तपुरुषोपदेशनिमित्तमित्यर्थः । आवयोर्ज्ञाने समाने सति संवादयिष्ठाः, त्वं गुरुरहं शिष्य इति गुरुशिष्योक्तिरूपं संवादं मा कारय । एतस्मिन्कार्यमाणे वयं बाधिताः स्यामः ॥
ननु यद्यपि त्वं जानीष एनं पुरुषं तथाऽपि तद्गुणोपासनां फलं च न जानीष इत्यत आह
बृहन्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा
भवति ॥ ३ ॥ बृहन्नभ्यधिकः पाण्डरवासाः शुक्लगुणोज्ज्वलवस्त्रश्चन्द्रमसः सूर्यसुषुम्नानाडीरूपत्वात् । एतौ शास्त्रान्तरोत्तौ गुणौ सूर्येऽप्यविरुद्धौ । अतिष्ठाः सर्वाणि भूतान्यतीत्य तिष्ठतीत्यतिष्ठाः । सर्वेषां भूतानां निखिलानां स्थिरजङ्गमानां मूर्धा मस्तकम् । इत्यनेन प्रकारेण । वै प्रसिद्धः सर्वेषां ब्रह्मविदां निरभिमानिनाम् । अहमजातशत्रुः । एतं त्वयोक्तं पुरुषमुपास उपासनया साक्षात्कुर्वे । इतिरुक्तपुरुषगुणपरिसमाप्त्यर्थः । स यो हैतमेवमुपास्ते । यः प्रसिद्ध उपासकः । ह किल । एतमुक्तगुणकं पुरुषम् । एवमुपास्ते, उक्तगुणोपासनया साक्षात्कुरुते । सः, अतिष्ठाः सर्वेषां भूतानां मूर्धा । व्याख्यातम् । भवति यद्गुणं ब्रह्मोपास्ते स्वयमपि तद्गुणो भवति । उपासनस्थानमेतन्न तु शुद्धं निरुपाधि ब्रह्मेत्युक्तं भवति ।। ३ ॥
स होवाच वालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः सोमो राजाऽन्नस्याऽऽत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽन्नस्याऽऽत्मा भवति ॥ ४॥ चन्द्रमसि चन्द्रमण्डले । सोमो राजा प्रियदर्शनो दीप्तिमान् । अन्नस्याऽऽत्मा । चतुर्विधस्यादनीयस्याऽऽत्मा कारणं स्वरूपं वा । फले तु तद्वान्भवतीति व्याख्येयम्॥४॥
स होवाच बालाकिर्य एवैष विद्युति पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस आत्मा भवति ॥ ५ ॥ १ ख. यिष्ठा अन्न । २ ख. 'यिष्ट : सत्यस्याऽऽत्मे । ३ ख. °स्ते सत्यस्याऽऽत्मा ।
For Private And Personal