SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३२ शंकरानन्दविरचितदीपिकासमेता - [२ द्वितीयाध्याये कुरुसंज्ञकेषु देशेषु पञ्चालसंज्ञकेषु । काशिविदेहेषु काश्युपलक्षितेषु विदेहसंज्ञकेषु । इत्येवं प्रकारेष्वन्येष्वपि त्रैवर्णिकनिवास देशेष्ववसदित्यर्थः । स नानादेशनिवासी प्रथि - तकीर्तिर्गर्वाढ्यो गार्ग्यः । ह किल । अजातशत्रुं न विद्यते जात उत्पन्नो यदपेक्षया शत्रुः शात्रवः स्वस्य स्वेन वा सर्वत्र समबुद्धेः सोऽयं सार्थकनामधार्यजातशत्रुस्तम् । काश्यं काशिदेशाधिपतिम् । एत्य कदाचित्सभागतं प्राप्य | उवाचोक्तवान् ॥ गायक्तिमाह--- -- Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्म ते ब्रवाणीति तं होवाचाजातशत्रुः । ब्रह्मानुपचरितब्रह्मशब्दाभिधेयं ते तुम्यमजातशत्रवे । ब्रवाणि यदि भवतोऽपेक्षा तदा वदानीत्यनेन प्रकारेणावाचेत्यन्वयः । तमेवं वदन्तं गार्ग्य ह किल । उवाचोक्तवानजातशत्रुरजातशत्रुनामा राजा ॥ अजातशत्रूक्तिमाह सहस्रं दस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥ [*आदित्ये बृहच्चन्द्रमस्यन्नं विद्युति सत्यं स्तनयित्नौ शब्दो वायान्द्रो वैकुण्ठ आकाशे पूर्णमनौं विषासहिरित्यप्सु तेज इत्यधिदैवतमथाध्यात्ममादर्शे प्रतिरूपश्छायायां द्वितीयः प्रतिश्रुत्कायामसुरिति शब्दे मृत्युः स्वमे यमः शरीरे प्रजापतिर्दक्षिणेऽक्षिणि वाचः सव्येऽक्षिणि सत्यस्य ] ॥ २ ॥ सहस्रं गवां सहस्रम् । दद्मो वयं राजानोऽल्पेऽपि कार्ये प्रभूतं प्रयच्छामः किमुत त्वादृशानामित्यर्थः । ते तुभ्यं ब्राह्मणाय ब्रह्मविदे दानपात्राय । नेयं ब्रह्मविद्याया दक्षिणा किं त्वित्येतस्यामिदानीमुक्तायां वाचि ब्रह्म ते ब्रवाणीत्येवंरूपवाङ्मात्रनिमित्तम् । जनक एतन्नामा मिथिलेश्वरो ब्रह्मविद्यायाः ससाधनाया दाता जनकः स एव ब्रह्मविद्यायाः प्रतिग्रहीता । इत्यनेन प्रकारेण तं ज्ञात्वाऽत्यर्थं वै प्रसिद्धाः । उ अपि जनात्रैवर्णिका धावन्ति गच्छन्ति । अयमर्थः । ब्रह्मविद्याया यो दाना वक्ताऽपि चेत्येवं वदन्तो जना मिथिलेश्वरमेत्य गच्छन्ति । अपि मां तादृशं ततोऽप्यधिकं वा न जानती - त्यनेन प्रकारेणोवाचेत्यन्वयः ॥ १ ॥ २ ॥ स होवाच बालाकिये एवैष आदित्ये पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः । स उक्तः । ह किलोवाचोक्तवान् । बाला किलाकस्यापत्यम् । य एव * एतत्खण्डं क. ग. पुस्तकयोर्नोपलभ्यते टीकायां चास्य व्याख्याऽपि नोपलभ्यते । १. 'ए' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy