SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेता- [प्रथमाध्यायेऽष्टमंखण्डम्] आनन्दः सुखैकस्वभावः । अजरो जरारहितः । अमृतो मरणरहितः स्वयंप्रकाशविज्ञानानन्दात्मस्वरूपः सर्वविक्रियाशून्य इत्यर्थः ।। ___ नन्वेवंरूपस्यापि साध्यसाधककर्मभ्यामाधिक्यन्यूनते स्यातां समुद्रस्येवोदयास्तमयावित्यत आह न साधुना कर्मणा भूयानो एवासाधुना कनीयान् । न साधुना कर्मणा भूयान् । साधुना शास्त्रविहितेन कर्मणा पुण्यरूपेण न भूयानाधिको भवतीति शेषः । नो एव नैव । असाधुना शास्त्रप्रतिषिद्धेन कर्मणा । कनीयान्कनिष्ठो न्यून इत्यर्थः । भवतीति शेषः । अयमर्थः । विक्रियावतो ह्यतिशयो दृष्टः समुद्रादेर्न तु विपरीतस्य गगनेऽदर्शनादिति ॥ साध्वसाधुकर्मणी आत्मानं न स्पृशत इत्यस्मिन्नर्थे हेतुमाह एष ह्येवैनं साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपत एष उ एवैनमसाधु कर्म कारयति तं यमधो निनीपते । एष ह्येव हि यस्मादेष एव प्राणप्रज्ञोपाधिक एव न त्वन्यः । एनं शरीराधात्मत्वाभिमानिनम् । साधु कर्म शास्त्रविहितं कर्म धर्मरूपम् । कारयत्ययस्कान्तवच्छ, रीर आविष्टः स्वयं निर्व्यापारस्तच्छरीराभिमानिनं विविधान्व्यापारान्कारयति । तमेनं प्रकृतं वक्ष्यमाणं यं प्रसिद्धं स्वर्गार्थिनम् । एभ्यः प्रत्यक्षेभ्यो लोकेभ्यः । उन्निनीषत ऊर्ध्वं नेतुमिच्छतीत्यर्थः । एष उ एव यथोक्त एव न त्वन्यः । एनं शरीराद्यभिमानिनम् । असाधु शास्त्रनिषिद्धं कर्म पातकं कारयत्यनिच्छन्तमप्यनुष्ठापयति । तं प्रियसखमप्यनार्थिनं यं प्रसिद्धं पातकिनमेभ्यः प्रत्यक्षेभ्यो लोकेभ्यो मनुष्यादिनिवासेभ्यः । अधो निनीपतेऽधो नेतुमिच्छतीत्यर्थः ॥ साध्वसाधुकर्मकारयितृत्वं स्वर्गनरकनयनार्थमित्युक्तं तदप्यस्य शरीरोपाधिरहितस्य चिन्मात्रस्य नियन्तृत्वशक्तिमात्रोपहितस्यान्तर्यामिणः प्रक्रान्तत्वादुपपन्नमित्याह एष लोकपालः। एष स्वर्गनरकयोर्नेता। लोकपालो लोकानां साधूनां सुखेनासाधूनां दुःखेन च पालको रक्षको लोकपालः ॥ तथा च लोकपालत्वं मन्त्र्यादिवत्स्यादित्यत आह ___ एप लोकाधिपतिः। एष उक्तो लोकपालः । लोकाधिपतिर्लोकानां रक्षकः । पित्रादिवदधिष्ठाय पालयतीति लोकाधिपतिः ॥ १ ख. ग. ह्येव सा । २ ख. ग. एवासा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy