SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८ अष्टमं खण्डम् ] कौषीतक्युपनिषत् । । १२९ दशैव । दशसंख्याका एव न त्वधिकाः । शरीरस्य सुखदुःखयोः स्पर्शस्य चावान्तरभावेन मनसश्च सर्वेन्द्रियेषु मन्तृत्वेन च भूतमात्रा वक्तव्याद्या विषयाः । अधिप्रझं प्रज्ञानीन्द्रियाण्यधिकृत्य वर्तन्त इत्यधिप्रज्ञम् । दश दशसंख्याकाः प्रज्ञामात्रा वागादीनीन्द्रियाणि । अधिभूतम् । स्पष्टम् । यद्यदि हि प्रसिद्धा भूतमात्रा नामादिरूपा न स्युन भवेयुस्तहि न प्रज्ञामात्राः स्युन निर्विषयमिन्द्रियं भवति यद्वा पक्षान्तरे प्रज्ञामात्रा उक्तानीन्द्रियाणि न स्युर्न भवेयुः । न भूतमात्रा उक्ता भूतमात्राः स्युन भवेयुः ॥ तत्र हेतुमाह न ह्यन्यतरतो रूपं किंचन सिध्येत् । अन्यतरत एकस्मात्प्रज्ञामात्राभूतमात्रयोर्मध्ये। हि यस्मात् । किंचन किमपि रूपं विषय इन्द्रियं न सिध्येत् । अयमर्थः । न हि विषयो विषयेणेन्द्रियं वेन्द्रियेणावगम्यते किंत्विन्द्रियेण विषयो विषयेणेन्द्रियमिति ॥ ननु यदि विषयेन्द्रियमितरेतरसापेक्षं तद्यस्य परस्परं विभिन्नत्वात्प्रज्ञाया अपि तन्निमित्तं विभेदः स्यात्तथा च यथा प्रज्ञायां सर्वाणि भूतान्येकं भवन्तीति प्रतिज्ञा व्याहता स्यादित्यत आह--- नो एतन्नाना। नो एतन्नाना, एतत्प्रज्ञामात्राभूतमात्रारूपं नाना भेदवन्नो । नानात्वाभावं प्रतिज्ञाय तत्र दृष्टान्तमाह तद्यथा रथस्यारेषु नेमिरर्पितो नामावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः । तत्तत्र । यथा दृष्टान्ते । रथस्य रथचक्रस्यारेषु नाभिप्रतिष्ठितेषु तीक्ष्णाग्रेषु काष्ठेषु नेमिररेभ्यो बहिर्देशवर्ति वर्तुलं काष्ठम् । अर्पितोऽरेषु वर्तत इत्यर्थः । नाभावन्तःकाठेऽक्षाधारच्छिद्रवति वर्तुले। अरा दीर्घाणि तीक्ष्णानि काष्ठानि । अर्पिताः प्रतिष्ठिताः । एवमेव तद्वदेव न त्वन्यथा । एता उपलभ्यमाना भूतमात्रा विषया नेमिस्थानीयाः । प्रज्ञामात्रासु, इन्द्रियेवरस्थानीयेषु । अर्पिताः प्रतिष्ठिताः । प्रज्ञामात्रा इन्द्रियाण्यरभूतानि प्राणे मुखनासिकासंचारिणि नाभिस्थानीयेऽर्पिताः प्रतिष्ठिताः । स प्राणोपाधिक एष प्राण एव प्रज्ञात्मा धीवृत्तौ प्रतिफलितः प्राज्ञ उपाधिविरहे प्रज्ञया नित्यया वयंप्रकाशयाऽवियुक्त आत्मा व्यापको व्यवहारावस्थायामस्मत्प्रत्यये व्यवहारयोग्यः । १ ख. त्माऽनन्तोऽज। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy