________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेणोऽस्मि प्रज्ञात्मा वक्ताऽऽयुरमृतमित्यवगच्छेत् । अथ वा प्राणोऽस्मि प्रज्ञात्मा वक्तेत्येवावगच्छेत् । अत्रैवाऽऽयुरमृतत्वयोरन्तर्भावादत एव प्राणप्रज्ञे सर्वप्राणो मुख्य इति प्राणे तावपीत्यङ्गीकृत्य सह ह्येतावित्याद्युक्तम् । अथवा वागादिभ्यः प्राणो मुख्य इति प्राणे ब्रह्मामृतत्वोपासनं समर्पितम् । अधुना वक्तर्यात्मनि प्राणस्यापि प्राणे ब्रह्मामृतत्वबुद्धिरुपदिश्यत इति रहस्यम् । पूर्वं न वाचं विजिज्ञासीतेति करणनिषेधः कृतोऽन्ते च न मनो विजिज्ञासीतेति तस्यैव निषेधं करिष्यति तेनाऽऽद्यन्ताम्यामिन्द्रियनिषेधः सर्वेन्द्रियोपलक्षणार्थ मध्ये पर्यायाष्टकेन विषयं निषिध्यति पूर्वोत्तरयोः करणस्येवेतरविषयनिषेधोपलक्षणार्थम् । न चात्रानेकश इन्द्रियप्राये शरीरस्य पाठाच्छरीरमपीन्द्रिय मिति मन्तव्यम् । करणस्येव विषयोपलब्धेर्विवक्षितत्वात्तस्य च भोगायतनेऽपि शरीरे यथाकथंचित्संपादयितुं सुशकत्वात् । अथैवमपि प्रायपाठस्याऽऽग्रहस्तर्हि शरीरशब्देन त्वगिन्द्रियमस्तु । न चैवं सुखदुःखयोर्विषयत्वं विरुध्यते ताभ्यामुपलक्षितस्य तज्जनकस्य स्पर्शस्यैव कल्पयितुं शक्यत्वात् । एवं च शरीरेऽपि प्रायपाठो न बाधितो भवेत् ।। पर्यायाष्टकेन विषयं निषिध्य तत्तद्विषयिण एवाऽऽत्मनो वेद्यत्वमाह
न गन्धं विजिज्ञासीत घातारं विद्यान्न रूपं विजिज्ञासीत रूपविद्यं विद्यान्न शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं विजिज्ञासीतान्नरसस्य विज्ञातारं विद्यान्न कर्म विजिज्ञासीत कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत सुखदुःखयोर्विज्ञातारं विद्यानाऽऽनन्दं न रतिं न प्रजाति विजिज्ञासीताऽऽनन्दस्य रतेः प्रजा तेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं विद्यात् । न गन्धं० विजिज्ञासीतैतारं विद्यात् । रूपविद्यं रूपविदम् । एतारं गन्तारम् । स्पष्टमन्यत् ॥ आदाविन्द्रियं निषिध्येन्द्रियस्वामिनो यथा ज्ञातव्यत्वमुक्तं तथाऽन्तेऽप्याह
न मनो विजिज्ञासीत मन्तारं विद्यात् । न मनो विजिज्ञासीत मन्तारं विद्यात् । वाक्पर्यायवघ्याख्येयम् ॥
एवं सर्वेन्द्रियविषयसाक्षिणो ज्ञानमभिधाय प्रसङ्गात्सर्वानर्थमूलं संसारचक्रमिन्द्रियविषयाभ्यामितरेतरसापेक्षाभ्यां प्रवर्ततेऽन्यतराभावे च न प्रवर्तत इत्यभिप्रायवानाह
ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्युन प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युन
भूतमात्राः स्युः। ताः प्रकृताः संसारचक्रस्य मूलभूताः । वै प्रसिद्धाः । एताः प्रत्यक्षा अनुमेयाश्च ।
१ क. रूपविदं । ख. द्रष्टारं ।
For Private And Personal