________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताश्चत्वारश्चतुष्पादेतदक्षरं परं ब्रह्म पूर्वाऽस्य मात्रा पृथिव्यकारः स ऋग्भिर्ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यो द्वितीयाऽन्तरिक्षमुकारः स यजुभिर्यजुर्वेदो रुद्रो रुद्रास्त्रिष्टुब्दक्षिणाग्निस्तृतीया द्यौर्मकारः स सामभिः सामवेदी विष्णुरादित्या जगत्याहवनीयो याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा लुप्तमकारः सोऽथर्वणैर्मत्रैरथर्ववेदः संवर्तकोऽग्निमरुत एकऋषी रुचिरा भास्वती स्वभा । प्रथमा रक्ता ब्राह्मी ब्रह्मदेवत्या द्वितीया
शुभा शुक्ला रौद्री रुद्रदेवत्या तृतीया कृष्णा विष्णुमती विष्णुसन्ति न चतुर्विति पादादिपतौ नोक्तानि । अग्नयः शिरस्त्वान्नोक्ताः। एतेषां शि. रस्त्वं चतुःशिरा इत्यनेन वक्ष्यति । पादाश्चत्वारोऽकारादयः। पादादीन्वक्तुं पुनश्चतुपात्त्वं प्रतिजानीते । चतुष्पादेतदक्षरं परं ब्रह्मेति । ऋग्भिरुपलक्षितत्वादृग्वेदो ब्रह्मादयोऽधिष्ठात्र्यो वस्वादयो गणदेवताः । लुप्तमकारो मकारस्य विस्तरत्वात्साऽथवणैर्मन्त्रैरुपलक्षिताऽतोऽथर्ववेदः । संवर्तकोऽग्निब्रह्मादिस्थानीयोऽधिष्ठाता । मरुत एकोनपञ्चाशत्संख्याका गणदेवताः । अत्र विराडित्यपपाठश्चतुष्कपाठेऽपठितत्वादन्यथा पादाश्चत्वार इत्यत्र च्छन्दांसि चत्वारीति च पठेत् । वर्णावसानत्वाचार्धमात्राया वर्णधर्मच्छन्दसोऽसंभवात् । नारसिंहे तु विराडित्यपि पठितं तत्रौपचारिकं छन्दस्त्वं बोद्धव्यम् । एकऋषिर्नामाग्निर्मध्यवस्थितः । तुर्यमात्राया ध्यानमाह । रुचिरेति । रुचिरा रम्या भास्वती दीप्तिमती स्वभाऽन्यनिरपेक्षप्रकाशा । इदानी मात्राणां वर्णानाह । प्रथमेति । रक्ता वर्णेन सृष्टि हेतुत्वेन राजसत्वात् । ब्राह्मी ब्रह्मवत्यग्रे विष्णुमतीत्युक्त. त्वात् । ब्रह्मा देवताऽपि तटस्थो भविष्यति न संबद्ध इतिशङ्कानिरासाय ब्राह्मीत्युक्तम् । शुभा शुक्ला चन्द्रसंनिभा । रौद्री नित्यसंनिहितरुद्रा । पुरुष ईश्वरः । यद्यपि ब्रह्मविद्योपनिषद्यकारादीनां क्रमेण ब्रह्मविष्णुरुद्रा देवता उक्तास्तथा तृतीया मात्रा मकारश्चाग्निसंकाशो विधूमो विद्यतोपम इत्युक्ताऽत्र तु ब्रह्मरुद्रविष्णवो देवता उक्तास्तृतीयमात्रा च कृष्णोक्ता तेन विरोधस्तथाऽथर्वशिरसि या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेनेति देवतावर्णविपर्यास उक्तस्तथाऽपि वस्तुतो ब्रह्मादीनां त्रयाणामेकरूपत्वादुपासनाङ्गत्वेन फलभेदाय तत्तद्र्पोपादानम् । एतेन वर्णभेदोऽपि परिहृतो ध्यानभेदेन फलभेदात् । अत एव कालाग्निरुद्रोपनिषदि महेश्वरसदाशिवशिवाः शैवं प्रति प्रणववर्णत्रयदेवा उक्ताः। आगमेषु कचित्सात्त्विकादिभेदेनैकस्या एव देवतायास्त्रिधा ध्यानमुक्तम् । वास्तवस्थितिं चात्रैव वक्ष्यति "ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः
१ क. "दो विष्णुरु । २ क, दो रुद्रा आदि' । ३ क. ख. रुतो विराडेक ।
For Private And Personal