SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमं खण्डम् ] कौषीतक्युपनिषत् । १२५ यथा वाक्प्रज्ञाया एकमङ्गमदूदुहद्यथा च तस्याः परस्तात्प्रतिविहिता भूतमात्रा नामवं प्राणचक्षुः श्रोत्ररसनहस्तशरीरोपस्थपादबुद्धिस्थसंविद एकैकमङ्गमदूदुहत् । आसां यथाक्रमं परस्तात्प्रतिविहिता भूतमात्रा गन्धरूपशब्दान्नरस कर्मसुखदुःखानन्दरतिप्रजातीत्यादिधीविज्ञातव्यकामा इति पर्यायनवकेनाऽऽह Acharya Shri Kailashsagarsuri Gyanmandir प्राण एवास्या एकमङ्गमदूहूळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या एकमङ्गमदूहूळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमदूद्द्ळं तस्य शब्द: परस्वात्मतिविहिता भूतमात्रा जिदैवास्या एकमङ्गमदूळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या एकमङ्गमदूळ तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एकमङ्गमदूळं तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या एकमङ्गमदूहूळं तस्याऽऽनन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादावेवास्या एकमङ्गमदूळ तयो - रित्याः परस्तात्प्रतिविहिता भूतमात्रां प्रज्ञैवास्या एकमङ्गमदूहळ तेस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता भूतमात्रा ।। ५ ।। प्राण एवास्या० भूतमात्रा । वाक्पर्यायवच्चक्षुरादयो नवापि पर्याया व्याख्येयाः ॥ ५ ॥ एवं प्रज्ञाया विभागमुक्त्वेदानीमविभागमाह -ORGA प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति । प्रज्ञया वाचा दुग्धयोक्तया संविदा वाचं वागिन्द्रियं समारुह्य सम्यक्तादात्म्यलक्षणेन संबन्धेनाऽऽरोहणं कृत्वाऽहं वागस्मीत्यभिमानं प्राप्येत्यर्थः । वाचा, उक्तप्रज्ञाभिन्नेनोक्तेनेन्द्रियेण । सर्वाणि निखिलानि नामानि वक्तव्यान्यामोति वाच्यधिरूढा प्रज्ञा प्राप्नोति । अयमर्थः । न प्रज्ञामन्तरेणोक्तविषयप्राप्तिस्ततो यद्यद्विना न भवति नोपलभ्यते वा तत्तदात्मकं यथा तन्तून्विनाऽनुपलभ्यमानः पटस्तन्त्वात्मकः शुक्तिकामन्तरेण वाऽनुपलभ्यमानं रजतं शुक्त्यात्मकं तथा चोक्तेन्द्रियमन्तरेणाविद्यमानोऽनुपलभ्यमानो विषय उक्तेन्द्रियात्मकः । उक्तं च “इन्द्रियं प्रज्ञामन्तरेणानुपलभ्यमानं प्रज्ञात्मकम्" इति ॥ यथा वाङ्नामनी प्रज्ञाया भेदरहिते एवं घ्राणगन्धौ चक्षूरूपे श्रोत्रशब्दौ जितान्नरसौ हस्तकर्माणि शरीरसुखदुःखान्युपस्थानन्दरतिप्रजातयः पादगतयः प्रज्ञाधीविज्ञातव्यकामाश्चेत्याह प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान्गन्धानाप्नोति प्रज्ञया चक्षुः समा १ ख. 'त्रा मन एवा'। २ ख. तस्य धीः का' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy