SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२१ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेवापसधैर्नामभिः सहाप्येति । स्पष्टम् ।। ननु प्राणे लीनानां तेषां समुद्र इव सरितां कुतः पुनरुत्पत्तिरित्यत आह . स यदा प्रतिबुध्यते । स प्राणोपाधिकः पुरुषो यदा यस्मिन्काले प्रतिबुध्यते जागरणं गच्छति ॥ जागरणवसर एतस्मादुत्पत्तौ दृष्टान्तमाहयथाऽनेचलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरभेवमेवैतस्मादात्मनः प्राणा यथायंतनं विमतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः। यथा दृष्टान्ते । अग्नेर्जातवेदसोज्वलतो जाज्वल्यमानात् । सर्वा दिशो विस्फुलिङ्गाः क्षुद्रा अग्निकणा विप्रतिष्ठेरन्विविधासु दिक्षु निर्गच्छन्ति । एवमेवानेनैव प्रकारेण न वन्यथा । एतस्मात्प्राणोपाधिकादात्मन आनन्दात्मनः प्राणा वागादयो यथायतनं यस्य यादृशं स्थानं निहादि तदुद्दिश्य विप्रतिष्ठन्ते विविधं निगच्छन्ति । प्राणेभ्यो देवा अग्न्यादयः । विप्रतिष्ठन्त एतदनुवर्ततेऽत्र वक्ष्यमाणे च । देवेभ्योऽग्न्यादिम्यो लोका नामादयो विषयाः ॥ जीवतः प्राणोपाधिकत्वमुक्त्वा मरणेऽपि प्राणोपाधिकत्वमाह तस्यैषैव सिद्धिः। तस्य प्राणोपाधिकस्य । एषैव मरणावस्थारूपैव नत्वन्या । सिद्धिः प्रसिद्धिः प्राणत्वे ॥ एषैव सिद्धिरिति व्याकरोति एतद्विज्ञानम् । एतन्मरणं सर्वप्रत्यक्षम् । विज्ञानं विज्ञायतेऽनेनेति विज्ञानं प्रमाणमिति यावत् ॥ एतच्छब्दोक्तं मरणमाह यत्रैतत्पुरुष आतों मरिष्यन्नार्बल्यं न्येत्य संमोहं न्येति तदाहुः। यत्र यस्यामवस्थायामेतत्पुरुषोऽयं पुमान्प्रत्यक्षो मनुष्यत्वाद्यभिमानी । आर्तो जराज्याध्यादीनां वश्यं प्राप्तः । मरिष्यन्मरणं करिष्यन्नासन्नमरण इत्यर्थः । आबल्यमबलस्य दुर्बलस्य भाव आवल्यं हस्तपादाद्यवश्यत्वमित्यर्थः । न्येत्य नितरामागत्य । संमोहं बन्ध्वाद्यपरिज्ञानलक्षणं न्यति नितरामागच्छति। तदाहुः समीपस्थाः कथयन्ति । म्मीपस्थोक्तिमाह उदक्रमीचित्तम् । उदक्रमीदुत्क्रमणमकरोत् । चिसं मनः ॥ १ ख. काः स एष प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति तस्मादेतदेवोक्थमुपासीतेति सैषा प्राणे सर्वाप्तिों वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणस्त। २ ख. बल्यमेत्य सं। ३ ख. 'मोहमेति तनाहुः । - For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy