________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ तृतीयं खण्डम् ] कौषीतक्युपनिषत् ।
१२१ तस्मायत इदं शरीरमुत्थापयति प्राणस्तत एतदेवोत्थापनहेतुभूतमेव नान्यत् । उक्यमुक्थशब्दाभिधेयम् । उपासीत । व्याख्यातम् ॥ ननु यदि प्राण उक्थत्वेनोपास्यस्तर्हि पञ्चवृत्तिमात्रं विवक्षितं न परमात्मेत्यत आह
यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः। यो वै प्राणो य एवात्र प्राणशब्दाभिधेयः । सा प्रसिद्धा प्रज्ञा सर्वबोधसाक्षिणी संवित् । या वा या वै प्रज्ञोक्ता । स प्रसिद्धः । प्राणः प्राणोपाधिकः परमात्मा ॥
ननु कस्मादेतदेकमेव तवोपाधिंभूतभित्यत आह___ सह खेतावस्मिञ्शरीरे वसतः सहोत्क्रामतस्तस्यैवैव दृष्टिः ।
सह मिलित्वा । हि यस्मात् । एतौ प्रज्ञाप्राणौ । अस्मिञ्शरीरे । स्पष्टम् । वसतो निवासं कुरुतो जीवेन सह मिलित्वोत्क्रामतोऽस्माच्छरीरादुत्क्रमणं कुरुतो मरणे । पाठान्तरे यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राण इति । तस्य प्राणोपाधिकस्य । एषैवेत्थमेव वक्ष्यमाणा । दृष्टिदर्शनापरपर्यायाऽवगतिः । अस्यामवस्थायां प्राण. शब्दाभिधेयोऽवगन्तव्य इत्यर्थः ।। एषैव दृष्टिरिति व्याकरोति
एतद्विज्ञानम् । एतद्विज्ञानं यदेतत्सुषुप्तं तदेवाऽऽत्मनः प्राणत्वविज्ञप्तिकारणम् ॥ एतच्छब्दार्थमाहयत्रतत्पुरुषः सुप्तः स्वमं न कंचन पश्यत्यथास्मिन्माण एवैकधा भवति ।
यत्र यस्यामवस्थायाम् । एतत्सर्वविशेषबोधशून्यं यथा स्यात्तथा । पुरुषो वस्तुतः परिपूर्णोऽपि पुरिशयः । सुप्तः शयनमधिगतः । स्वमं जाग्रद्वासनारूपं पदार्थजातं न कंचन पश्यति कमपि नावलोकयति । अथ तदा स्वप्नानवलोकनकाले । अस्मिन्मुखादिसंचारिणि तिरस्कृतज्ञानशक्तौ । प्राण एव क्रियाशक्तावेव न त्वन्यत्र । एकधा भवति, एकत्वं गच्छति । प्राणेपाधिकः प्राणशब्दार्हः पुरुषो भवतीत्यर्थः ।। ननु तदा वागादीनि करणानि क्व यान्तीत्यत आह
तदैनम् । तदा तस्मिन्प्राण एकधाभवनकाले । एनं प्राणोपाधिकमात्मानम् ॥ . वाक्चक्षुःश्रोत्रमनांसि सविषयाणि लयं गच्छन्तीति पर्यायचतुष्टयेनाऽऽह
वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैानैः सहाप्येति ।
१ ग. प्राणस्त। २ ख. होक्रम । ३ ख. यातैः स ।
។
For Private And Personal