________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०
शंकरानन्दविरचितदीपिकासमेता- [ १ प्रथमाध्यायेननु सर्वेषां तवोपाधित्वे समाने कः पक्षपातस्तव प्राणोऽस्मीत्यभिमान इत्यत आह
अस्ति त्वेव प्राणानां निःश्रेयसमिति ॥ २॥ अस्तित्वेव तुशब्दः शङ्कानिराकरणार्यः । प्राणो हि मम निःश्रेयसात्मन उपाधिनिःश्रेयसरूपः । प्रसिद्धं तस्य निःश्रेयसं प्राणसंवादादौ न च तदासीद्भविष्यति वा किं त्वस्त्येव वर्तत एव न तु कदाचिन्न वर्तते । प्राणानां प्राणस्य पञ्चवृत्तीनां निःश्रेयसं शरीरधारणोच्छ्यनादिकम् । इति निःश्रेयसवर्तमानत्वप्रतिज्ञापरिसमाप्त्यर्थः ॥२॥ . न चैतन्निःश्रेयसं वाक्चक्षुःश्रोत्राणामपि भवतीत्याह पर्यायक्रमेण सहेतुकम्
जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो
जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न इति । जीवति वागतो० बालान्हि पश्यामः। स्पष्टम् । वाक्चक्षुःश्रोत्रमनोभिरपेतो रहितो जीवतीति प्रज्ञाऽत्र हेतुः। मूकान्धबधिराणां च दर्शनम् । अयमर्थः । इन्द्रियाणां कार्यैकगम्यत्वात्कार्याभावे तदभाव इति च। जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः। स्पष्टम् । पर्यायद्वयेन हस्तपादरहितस्य जीवनमुच्यते । इतिः प्रकृतपर्यायपरिसमा. प्त्यर्थः ॥ एकहेलयोभयत्र हेतुमाह
एवं हि पश्याम इति । एवं हि पश्यामः । हि यस्मादेवं छिन्नहस्तपादानां जीवनं पश्यामोऽवलोकयामः । न च दृष्टेऽनुपपन्नं नामेत्यर्थः । इत्यनेन प्रकारेणाङ्गीकृत्य । इति हेन्द्र उवाचेत्यन्वयः । अथवाऽऽद्य इतिशब्दोऽङ्गीकारार्थोऽन्यस्तु प्रकारार्थ इति ॥ एतन्निःश्रेयसमस्त्येवेत्यस्मिन्नर्थ उपपत्तिम॒ग्येत्याह
अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति । अथ यस्मात्खलु निश्चितं सर्वप्रत्यक्षमिति यावत् । प्राण एव प्रज्ञात्मा क्रियाशक्त्युपाधिक एव ज्ञानशक्त्युपाधिको न त्वन्यः । इदं प्रत्यक्षं शरीरं देहं परिगृह्याहं ममेति वा स्वीकृत्योत्थापयति शयनासनादिभ्य ऊर्ध्वं नयति ॥ इदानी प्रसङ्गादुपासनान्तरं श्रुत्यन्तरप्रसिद्धं प्राणे स्मारयति ।
तस्मादेतदेवोक्थमुपासीत।
१ ख. सीतेति सैषा प्राणे सर्वाप्तिर्यो वै । २ ग. 'त सैषा प्राणे सर्वाप्ति यो
For Private And Personal