________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ द्वितीयं खण्डम् ] कौषीतक्युपनिषत् । । प्राणानामेकभाव उपपत्तिं यां कथयन्ति तामाह
न हि कश्चन शक्नुयात्सकद्वाचा नाम प्रज्ञापयितुं चक्षुषा
रूपं श्रोत्रेण शब्दं मनसा ध्यातुमित्येकभूयं वै प्राणाः। न हि कश्चन शक्नुयात् । हि यस्मात्कोऽपि न शक्नुयात् । सकृदेकवारं युगपदित्यर्थः । वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं श्रोत्रेण शब्दम् । वागिन्द्रियेण नाम वक्तुमिति शेषः । प्रज्ञापयितुमवगमयितुमवगन्तुमिति यावत् । एतच्चक्षुःश्रोत्राम्यां संबध्यते । स्पष्टमन्यत् । मनसा ध्यातुं मनसा ध्यानं कर्तुम् । इत्यनेन प्रकारेणैकहेलया व्यापाराभावेन । एकभूयं वै प्राणाः । व्याख्यातम् । पुनरभिधानं निगमनार्थम् ॥ उक्तं हेतुं विवृणोति
एकैकमेतानि सर्वाण्येव प्रज्ञापयन्ति । एकै रूपरसादिकं सर्वाण्येव निखिलान्येकैकमेवेत्यनेन संबध्यते । स्पष्टमन्यत् । एतानि वागादीनि करणानि । प्रज्ञापयन्ति प्रकर्षेण निष्पादयन्ति ॥ एकैकमेव प्रज्ञापयन्तीत्युक्ते शृङ्गग्राहिकयाऽऽह
वाचं वदन्ती सर्वे प्राणा अनु वदन्ति । वाचं वदन्तीं वागिन्द्रियं स्वव्यापारं कुर्वत्सर्वे प्राणा निखिलानीन्द्रियाणि राजानमिव वदन्तं सर्वे सभागता अनु वदन्ति पश्चाद्वदनोपलक्षितं स्वं स्वं व्यापारं कुर्वन्त्यनुमोदन्ते वा न त्वेकहेलया व्यापारं कुर्वन्तीत्यर्थः ।।
यथा वाचो व्यापार इतरेषां स्वव्यापारादुपरमस्तथा चक्षुःश्रोत्रमनःप्राणानां व्यापारेऽपीत्याह पर्यायचतुष्टयेन
चक्षुः पश्यत्सर्वे प्राणा अनु पश्यन्ति श्रोत्रं शृण्वत्सर्वे प्राणा अनु शृण्वन्ति मनो ध्यायत्सर्वे प्राणा अनु ध्यायन्ति पाणं प्राणन्तं सर्वे प्राणा अनु प्राणन्तीति । चक्षुः पश्यत्सर्वे० प्राणा अनु प्राणन्ति । स्पष्टम् । अनेनानेकावधानान्येककाले सूच्यप्रेण शतपत्रसहस्रपत्रवेधनवदस्पष्टविभिन्नकालानि व्याख्येयानि । इतिः प्रतर्दनप्रश्नपरिसमाप्त्यर्थः ॥ प्रतर्दनप्रश्नस्येन्द्रोऽङ्गीकारेणैवोत्तरमुक्तवानित्याह
___ एवमु हैतदिति हेन्द्र उवाच । एवमु, इत्यमेवैकहेलया न सर्वे प्राणाः स्वस्वव्यापारवन्तः । ह प्रसिद्धं सर्वजनीनानुभवेन । एतदेकहेलया सर्वेन्द्रियाणां स्वस्वव्यापाराकरणम् । इति ह, एवं किल । इन्द्र उवाच । स्पष्टम् ॥
१ क. न क' । २ ख. 'त्येककालमेक'। ३ ख. भूत्वैकै ।
For Private And Personal