________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११८ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेप्राणो वा आयुः प्राण एवाऽऽयुः । न त्वङ्गाङ्गिगुणगुण्यादिभेदः ॥ न त्वेतदायुष एव किं त्वमृतत्वस्यापीत्याह
मीण एवामृतम् । प्राण एवामृतं न जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति च । अमृतमपि
प्राण एवं ॥
प्राणस्याऽऽयुष्ट्वममृतत्वं चोपपादयति
यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः । यावत्, यावन्तं कालम् । हि यस्मात् । अस्मिन्प्रत्यक्षे शरीरे शीर्णावयवे कलेवरे । प्राणो वसति तावदायुः, तावत्तावन्तं कालम् । स्पष्टमन्यत् ॥ इदानीममृतत्वमुपपादयति
प्राणेन ह्येवामुष्मिल्लोकेऽमृतत्वमामोति । प्राणेन होव हि यस्मात्प्राणेनैव न तु शरीरेणापि । अमुष्मिन्परोक्षे लोके स्वर्गादौ। अमृतत्वं सुखम् । आमोति स्पष्टम् ॥ ननु प्राणस्य क्रियाशक्तेर्भवतु किं प्रज्ञयेत्यत आह
प्रज्ञया सत्यं संकल्पम् । प्रज्ञया ज्ञानशक्तिरूपेण । सत्यं सत्यवचनं निष्प्रपञ्चं ब्रह्म वा । संकल्पमिदं मे स्यादित्येवंरूपं मनसः प्रचारमधिगच्छतीति शेषः । एवं प्रज्ञादीनामुपयोगमुक्त्वाऽऽयुष्ट्वामृतत्वोपासनयोः फलमाह
स यो ममाऽऽयुरमृतमित्युपास्ते सर्वमायुरस्मिल्लोक एति । स प्रसिद्ध उपासकः । यः कश्चिन्ममेन्द्रस्य । प्राणात्मना प्रत्यग्भूतमायुरमृतमिति व्याख्यातम् । उपास्ते स्पष्टम् । य उपास्ते स इत्यन्वयः । सर्वमायुरस्मिल्लोक एति. निखिलं शतसंवत्सरमायुराप्नोति ॥ आयुरुपासनस्य फलमुक्त्वाऽमृतोपासनस्य फलमाह
आमोत्यमृतत्वमक्षितिं स्वर्गे लोके । आमोत्यमृतत्वमक्षितिं स्वर्गे लोके । क्षयरहितममृतत्वम् । स्पष्टमन्यत् ॥ प्रतर्दनः प्राणशब्दं श्रुत्वा प्राणानामिन्द्रियाणामेकत्वं स्वयमवगतं प्रसङ्गात्पृच्छति
तटैक आहुरेकभूयं वै प्राणा गच्छन्तीति । तत्तत्र प्राणानामनेकत्वे सति । ह किल । एके केचिद्विद्वांसः । आहुः कथयन्ति । एकभूयं वै, एकभावमेव । प्राणा इन्द्रियाणि । गच्छन्ति स्पष्टम् । इत्यनेन प्रकारेणाऽऽहुरित्यन्वयः ॥
१ क. प्राणो वा अमृ । २ क. स या । ३ क. सत्यसं । ४ ख. यो मामा ।
For Private And Personal