SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २ द्वितीय खण्डम् ] कौपीतक्युपनिषत् । लोको मीयते । अस्य मामानन्दात्मानं साक्षात्कुर्वतः केन च वक्ष्यमाणेन भ्रूणहत्यादिना कर्मणा पातकेन शास्त्रनिषिद्धेन व्यापारेण लोकः कृतस्य करिष्यमाणस्य च सुकृतस्य फलमुदकं न मीयते न हिंस्यते ।। हिंसकानि कर्माण्येव दर्शयन्नाह-- ने मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं चन चंकृषो मुखानीलं वेतीति ॥ १ ॥ न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया । मातापितरौ प्रसिद्धी तयोर्वधो लोकद्वयभ्रंशहेतुः प्रत्येकं प्रसिद्धः । स्तेयं सुवर्णपरिमितसुवर्णस्य ततोऽप्यधिकस्य वा स्वामिनः परोक्षमादानं तेन । भ्रूणो वेदस्य वेदयोर्वेदानां वाऽधिगमेनाध्ययनेन सह वर्तमानो द्विजोत्तम इत्यर्थः । तस्य मनसा वाचा कर्मणा वाऽपराधशून्यस्य स्वहस्तादिना वधो भ्रूणहत्या। तथा कर्मसामान्यस्य विशेषोऽयमिति दर्शयितुं पर्यायचतुष्टयेऽपि नकारचतुष्टयम् । नास्य पापंचन चकृषो मुखानीलं वेतीति । किं बहुनाऽस्य मदात्मज्ञानिनः पापं चन चकृषः पापमपि कर्तुमिच्छोमुखाद्वदनान्नीलं मुखकान्तिस्वरूपं नीलं नीलिमाश्रयस्वरूपं वा मुखात्कण्ठजिह्वावदनान्न वेति न व्येति नापगच्छति । इतिशब्दः प्रकृतब्रह्मज्ञानस्तुतिपरिसमाप्त्यर्थः ॥ १ ॥ स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व । एवं ब्रह्मज्ञानं स्तुत्वाऽऽत्मनो ब्रह्मणः स्वरूपं विवक्षुः स इन्द्रः । ह किलोवाचो. क्तवान् । प्राणः प्राणशब्दाभिधेयः प्राणोपाधिको वा । अस्मि भवामि । प्रज्ञात्मा बुद्धिवृत्तिप्रतिफलितः प्रज्ञानैकस्वभावः । तं प्राणप्रज्ञात्मस्वरूपम् । मामानन्दात्मानमिन्द्रम् । आयः सर्वप्राणिनां जीवनकारणं प्राणापानव्यतिरिक्तं प्राणापानयोराश्रयभूतम् । अमृतं मरणशून्यं षड्भावविकारशून्यमित्यर्थः । इति प्राणः प्रज्ञात्मेन्द्र आयुरमृतमस्मीत्यनेन रूपेण । उपास्स्व यावदात्मसाक्षात्कारं विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहं कुरु ॥ नन्वेकस्यैव भवत इन्द्रस्य प्राणः प्रज्ञात्माऽयुरमृतमिति गुणाः किमित्याशङ्कय नेत्याह-- आयुः प्राणः। आयुरुक्तं यत्स प्राण उक्तः ॥ नन्वायुषः प्राणत्वेऽपि न प्राणस्याऽऽयुष्वं यथा सास्नाया गोत्वेऽपि न गोः साना त्वमित्यत आह प्राणो वा आयुः। - १ ख, ग. न स्तेयेन न भ्रूणहत्यया न मातृवधेन न पितृवधेन ना। २ क. ख. चक्रुषो । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy