SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११६ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्याये• ननु किं त्वद्विज्ञानेन तवान्यस्माद्यदि कश्चनातिशयो भवेत्तर्हि तद्धिततमं न त्वन्यथेति शङ्कायामद्वैतज्ञानं गुरुमातृवधप्रमुखपापोन्मूलकमित्याह त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालाकेभ्यः प्रायच्छं बढीः संधा अतिक्रम्य दिवि प्रहलादीयानतृणमहमन्तरिक्ष पौलोमान्पृथिव्यां कालखाञ्जान् । त्रिशीर्षाणं त्रिशीर्षम् । त्वाष्ट्रं त्वष्टुरपत्यं विश्वरूपम् । अहनं निपातितवान् । अरुन्मुखान् , रुच्छब्दो वेदाध्ययनं तेनोपनिषदर्थविचारो ब्रह्ममीमांसापरपर्यायो लक्ष्यते स येषां मुखे नास्ति तेऽरुन्मुखास्तान् । यतीन्प्रयत्नवतश्चतुर्थाश्रमिणः । सालाकेभ्यः सालावृकाणामपत्यानि सालावृकाः सालावृकेया इति यावत् । तेभ्य आरण्यश्वम्य इत्यर्थः । मायच्छं प्रकर्षण वज्रण शतधा विभज्य दत्तवान् । अद्यापि च तेषां मस्तकविपाकाः करीरा दृश्यन्ते । बढीभूयसीः स्वरूपतः संख्यातश्च । संधाः संधीनित्यर्थः । अतिक्रम्य त्यक्त्वा दिवि स्वर्गे । प्रहादीयान्प्रहादिनः प्रह्लादेन नित्यसंबन्धिनः । अनेककोटिसंख्याकान्महामायाननेकच्छिद्रघातिनोऽसुरान्प्रहादपरिचारकानित्यर्थः। अतृणं हिंसितवान् । अहमात्मज्ञानीन्द्रस्तुभ्यं वरस्य दाता । अन्तरिक्षे भुवर्लोके । पौलोमान्पुलोमसंबन्धिनोऽसुराविशेषान् । बह्वीः संधा अतिक्रम्यातृणमित्यनुवर्तते वक्ष्यमाणे च । पृथिव्यां भूलोके च । कालखानान्कालखञसंबन्धिनोऽसुरान्भूयांसः परस्परसंबन्ध. स्यावश्यंभावित्वात् । कालखञ्जा एव कालखाञ्जास्तान ॥ ननु किं प्रकृत इत्यत आह तस्य मै तत्र नलोम च मा मीयते । तस्य गुरुब्राह्मणवधस्य कर्तुः संन्यासिनां च श्वभ्यो दातुर्लोकत्रयेऽपि यज्ञादिसंपनमहामायासुरसंघस्योपसंहर्तुरात्मज्ञानिनोऽन्येन मनसाऽपि कर्तुमशक्यं कुर्वतो मे ममेन्द्रस्य तवोपदेशकस्य । तत्र तस्मिन्नतिक्रूरे कर्मणि क्रियमाणे ब्रह्मवधादिलक्षणे । नलोम च मा मीयते । नलोमापि । अल्पोऽपि केश इत्यर्थः । मा मीयते न हिंस्यते । उक्तेन केनचित्कर्मणाऽधिकारिशरीरवानिति त्रैलोक्यस्थापनायेदं कृतवानहमिति हृदयम् ॥ नन्वेतद्भवत एव न त्वस्मदादेरित्यत आह___स यो मां विजानीयानास्य केन च कर्मणा लोको मीयते । स मदन्यो मज्ज्ञानी प्रसिद्धः । यो यः कश्चिद्देवो मनुष्यो वा । मामानन्दात्मानमिन्द्रम् । विजानीयादहमिन्द्रोऽस्मीति साक्षात्कुर्यात् । नास्य केन च कर्मणा १ क. प्रहलादादी । २ क. 'लकाश्यान् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy