SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १ प्रथमं खण्डम् ] कौषीतक्युपनिषत् । परं हितमित्यर्थः । मन्यसे निश्चिनोषि । इति, अनेन प्रकारेण । तमिन्द्रं प्रत्येवंवादिनं प्रतर्दनम् । ह किल । इन्द्रो देवरानो ब्रह्मविद्याज्ञानावृतदृष्टिनाऽयाचितं परोक्त्या तर्हि किल निश्चितं दातुमशक्तः । उवाचोक्तवाँल्लौकिकं नयम् ॥ इन्द्रोक्तिमाह न वै' वरोऽवरस्मै वृणीते त्वमेव वृणीष्वेत्येवमवरो ३ किल मः इति होवाच प्रतर्दनोऽथो खल्विन्द्रः सत्यादेव नेयाय । न वै वरोऽवरस्मै वृणीते । वै प्रसिद्धमवरस्मा अन्यार्थ वरो वरं न वृणीतेऽन्यो न प्रार्थयते । यत एवमतः स्वार्थं वरं त्वमेव वृणीष्वेति । स्पष्टम् । एवमिन्द्रेणोक्तः । अवरः । वरं ददानीति प्रतिज्ञाय भवता निर्दिष्टोऽर्थोऽदत्तः स्यादिति शेषः । वै प्रसिद्धो मनुष्याय मे मह्यं हिताहितज्ञानशून्याय । इति होवाच प्रतर्दनः किल । एवमुक्तवान्प्रतदैनो देवराजानं स्वार्थो वरोऽयमिति । अथो, अथ प्रतर्दनवाक्यानन्तरम् । खलु निश्चितम् । इन्द्रः सत्यवादिनामग्रगण्यो देवराजः । सत्याद्वरं ते ददानीति स्वप्रतिज्ञाताद्यर्थवचनात् । एव नेयाय नापजगामैव । प्रतर्दनाथ वरदाताऽपि स्वयं स्वस्मै. परं याचितवान्न तु लौकिकं नयमङ्गीचकारेत्यर्थः ॥ सत्यादनपगमने कारणमाह सत्यं हीन्द्रः स होवाच । सत्यं हीन्द्रः सत्यं यथार्थस्वरूपं यत्किंचिद्वागर्थस्वरूपम् । इन्द्रो देवराजो हि यस्मात्तस्मान्नेयायेत्यन्वयार्थः । स सत्यपाशनिबद्ध इन्द्रः । ह किल । उवाचोक्तवान् । प्रतर्दनार्थमात्मानं वरं याचितवानित्यर्थः ॥ अद्वैतोपक्रम इन्द्रोक्तिमाह मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये । मामेवास्मत्प्रत्यये व्यवहारयोग्यमानन्दात्मानमेव न त्वन्यम् । विजानीयवगच्छ साक्षात्कुर्वित्यर्थः । एतदेव मन्ज्ञानमेव न त्वन्यत् । अहं भवते वरस्य दाता याचिता च । मनुष्याय हिततमम् । व्याख्यातम् । मन्ये निश्चिन्वे ॥ एतच्छब्दार्थमाह येन्मां विजानीयात् । यत्प्रसिद्धं वेदान्तेषु 'ब्रह्मविदाप्नोति परम्' इत्यादिना । मामुक्तमानन्दात्मानं विजानीयात्साक्षात्कुर्यादित्यर्थः । यन्मां विजानीयादेतदेव हिततमं मन्य इत्यन्वयः ॥ १ क. वै वरं परः परस्मै । २ 'ध्वेत्यवरो' इत्यपि पाठः । ३ क. ख. वै तर्हि कि । ४ ख. ग. यो मां। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy