________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कौषीतक्युपनिषत् ।
११४-४० अथानन्तरम् । दक्षिणावृत्पितुः प्रदक्षिणप्रकारेण मामाच्यां दिशि उपनिष्कामति पितुः समीपदेशान्निर्गच्छति । तं पुत्रं पिता जनकः, अनुमत्रयते पश्चात्संबोध्य ब्रूते । अनुमन्त्रणवाक्यमाह—यशो लौकिकी बन्धुजनादिभ्यः कीर्तिः । ब्रह्मवर्चसं ब्रह्मतेजः । अन्नाचमनं च तदाद्यं चान्नाद्यम् । कीर्तिः शास्त्रीयं यशस्त्वा त्वां पुत्रं जुषता सेवताम् । इत्यनेन प्रकारेणानुमन्त्रयत इत्यन्वयः । अथैतदनुमन्त्रणानन्तरम् । इतरः पुत्रः सव्यं वाममंसं बाहुमूलं स्वस्यान्ववेक्षते पश्चादवलोकयते ॥ अवलोकनप्रकारमाह
पाणिनाऽन्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गाल्लोकान्कामानामुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परि वा व्रजेद्यधु वै प्रेयांद्यदेवैनं समायति तथा समापयितव्यो भवति तथा समापयितव्यो भवति ॥ १०॥ इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषदि
द्वितीयोऽध्यायः ॥ २ ॥ *कौषीतकिब्राह्मणारण्यकक्रमेण सप्तमोऽध्यायः ॥७॥ पाणिना करेणान्तर्धाय व्यवधाय वसनान्तेन वा, वाशब्दः पूर्वेण सहेच्छाविकल्पार्थः । प्रच्छाद्याऽऽच्छाद्य पितरं प्रत्याह । स्वर्गाल्लोकान्निरतिशयप्रीतिजनकान्देशविशेषान्कामान्कमनीयांस्तत्र स्थितान्भोगान्वाऽऽनुहि प्रामुहि । इत्यनेन प्रकारेण ब्रूयादित्यनुषङ्गः । एवं पुत्रेण कृते स पिता यदि कथंचिदगदः स्यान्नीरोगो भवेत् । पुत्रस्य तनयस्यैश्वर्ये विभूतौ पिता जनको वसेन्निवासं कुर्यात्प्रवासिवगृहकार्य किमपि नानुसंदध्यादित्यर्थः । परि वा व्रजेत् । वाशब्दः पक्षान्तरार्थः । यदि वैराग्यं तदा परिव्रजेत्सर्वसङ्गपरित्यागं कुर्यादित्यर्थः । यधु वा अपि कथंचित्प्रसिद्ध प्रेयात्परलोकं गच्छेत् । यदेव प्रसिद्धमेव वागादिकं न त्वन्यत् । एनं पुत्रं प्रति समापयति सम्यक्प्रापयति । तथा तद्वदेव समापयितव्यो भवति सम्यक्प्रापणीयो भवति । सर्वैः कामैरिति शेषः । तथा समापयितव्यो भवति । व्याख्यातम् । वाक्याभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥ १० ॥ ___ इति श्रीपरमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यत्य शंकरानन्दभगवतः कृतौ
___ कौषीतकिब्राह्मणोपनिषद्दीपिकायां द्वितीयोऽध्यायः ॥ २ ॥
___ * एवमेव पुरतस्तृतीयचतुर्थाध्यायस्थलेऽटमनवमाध्यायौ ज्ञातव्यौ ।
1 घ. 'यात्तदे। च. पत्तथैव । २ च. 'पयेयुर्यथा । ३ घ, यथा । ४ च. यथा । १५-५
For Private And Personal