SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १० दशमः खण्डः] कौषीतक्युपनिषत् । ११४-३८ स्वः स्वर्ग प्राणं ब्रह्मज्ञानोत्पादनद्वाराऽऽनन्दात्मानं वैति गच्छति । स्वरेतीत्येतद्व्याकरोतिस उपासकस्तद्भवत्युक्तं प्राणस्वरूपं भवति । तच्छब्दार्थमाह-यत्र यस्मिन्प्राणस्वरूप एते देवा एते वागादयोऽन्याद्यात्मका देवशब्दाभिधेयाः । ननु वागादीनामन्यायाप्तिलक्षणममृतत्वं जातं तत्प्राप्तावुपासकस्य पुनस्तत्प्राप्तौ किं स्यादित्यत आहवत्प्राणस्वरूपं प्राप्यावाप्य तदमृतस्तत्सर्वपरिच्छेदशून्यममृतत्वं यस्य सोऽयं तदमृतो भवति स्पष्टम् । यदमृता यत्प्रसिद्धं सर्वपरिच्छेदशून्यममृतत्वं येषां ते यदमृता देवा वागावाः ॥९॥ इदानी प्राणविदः संप्रतिकर्माऽऽह अथातः पितापुत्रीयं संप्रदानमिति चाऽऽचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति नवस्तृणैरगारं संस्तीर्यानिमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन वाससा संप्र च्छन्नः स्वयं श्येत एत्य पुत्र उपरिष्टादभिनिपद्यते, अथ प्राणोपासनानन्तरम् । अतो यस्मान्मरणमवश्यंभावि, अस्मात्कारणात्पितापुत्रीयं पित्रा पुत्राय दीयमानं पितापुत्रीयं संप्रदानं सम्यक्प्रदीयत इति संप्रदानं संप्रत्तिकर्मेत्यर्थः । इति चाऽऽचक्षतेऽनेनैव प्रकारेण कथयन्ति । पिता पुत्र प्रेष्यन्कृतश्चिनिमित्तान्मरिष्यामीति निश्चित्येत्यर्थः। पिता जनकः पुत्रमौरसं तनयमाह्वयति, आकारयति संपत्तिकर्मार्थम्। आकारण इतिकर्तव्यतामाह-नवस्तृणैर्नवीनैः कुशादिभिस्तृणैरगारं संस्तीर्य गृहमाच्छाद्याग्निमुपसमाधाय तस्मिन्गृहे श्रौतं स्मार्त वाऽग्निं संस्थाप्यानेरुत्तरतः पूर्वतो वोदकुम्भं सपात्रमुपनिधाय नीरपूर्ण कलशं व्रीहिपूर्णपात्रसहितं समीपे संस्थाप्याहतेन वाससा संप्रच्छन्नो नवीनवस्त्रेण संवृतः स्वयं श्येतेः श्वेतः सितमाल्याम्बरधर इत्यर्थः । एत्याऽऽगत्याऽऽह्वयतीत्यन्वयः । पुत्र आगते तनय उपरिष्टादुपरिमागेऽभिनिपद्यते सर्वतो नितरां प्राप्नोति ॥ अभिनिपदन इतिकर्तव्यतामाह इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वाऽस्याभिमुखत एवाऽऽसीताथास्मै संप्रयच्छति वाचं मे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः इन्द्रियैश्चक्षुरादिभिः स्वकीयैरस्य पुत्रस्येन्द्रियाणि चक्षुरादीनि संस्पृश्य सम्यक्स्पर्शनं विधायाभिनिपद्यत इत्यन्वयः । पक्षान्तरमाह-अपि वाऽथवा । अस्य पुत्र १ च. "नः पिता शेत । २ घ. 'तः सि । ३ च. वाऽस्मा आसीनायाभिमुखायैव संप्रदध्यादया । ४ च यः । यद्वा पिता शेते पुत्रोऽभिनिपद्यत इति पाठादन्वयः । प । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy