SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-३७ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्याये त्तस्थौ ते देवाः प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैतैः सर्वैरस्मॉल्लोकादुच्चक्रमुः। अथैनच्चक्षुः प्रविवेश तद्वाचा वददिति । स्पष्टम् । अथ वाक्चक्षुःश्रोत्रमनःप्रवेशानन्तरमेतच्छरीरं वदत्पश्यच्छृण्वद्ध्यायत्माणो मुखबिलान्तर्वर्ती पञ्चवृत्तिवायुवि. शेषः प्रविवेश प्रवेशं कृतवान् । तच्छरीरं तत एव तस्मात्प्राणप्रवेशादेव न त्वन्यस्मात्समुत्तस्थौ सम्यगुत्थानं कृतवत् । ते वागादयः परित्यक्ताभिमाना देवा देवशब्दामिधेयाः प्राणे शरीरोत्थापनहेतौ प्रकृष्टचेष्टावति निःश्रेयसं सर्वेभ्यो वागादिम्य उत्कर्ष विदित्वा प्राणमेव प्रकृष्टचेष्टावन्तं न त्वन्यं प्रज्ञात्मानं प्रज्ञात्मनो भूम्न उपाधिभूतं संप्रसादम् । अथवा प्राणे सति प्रज्ञाया दर्शनादसति चादर्शनात्प्राणस्य प्रज्ञात्मत्वमविरुद्धमभिहितं प्राणमेव प्रज्ञात्मानमिति । अभिसंभूय सर्वतः संभवनं प्रातिं कृत्वा सहैतैः सर्वैरेतैः प्राणापानव्यानोदानसमा निखिलैः सह यथा प्राणवृत्तिभेदा आध्यात्मिकपरिच्छेदशून्यास्तद्वद्वागादयोऽपीत्यर्थः । अस्मात्प्रत्यक्षाल्लोकोत्तनुरूपाच्छरीराच्चक्षुराद्यमिमानादित्यर्थः । उच्चक्रमुरुत्क्रमणं चक्रुः । ते वायुमंतिष्ठा आकाशात्मानः स्वरीयुस्तथो एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसंभूय सहैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रैतिष्ठ आकाशात्मा स्वरेति स तद्भ वति यत्रैते देवास्तत्माप्य तदमृतो भवति यदमृता देवाः॥९॥ ते परित्यक्ततदभिमाना वागादयो वायुप्रतिष्ठा वायावाधिदैविके प्राण प्रतिष्ठा प्राणो निःश्रेयसमिति ज्ञानमाश्रयो येषां ते वायुप्रतिष्ठाः । आकाशात्मान आकाशव. सर्वगत आत्मा येषां त आकाशात्मानः । स्वरीयुः स्वः स्वर्गमग्न्यादिस्वरूपमीयुर्ययुर्गतवन्त इत्यर्थः । तथो एव, उ अपि तद्वदेव यथा देवा न त्वन्यथा। एवं विद्वानुक्तेन प्रकारेण प्राणे निःश्रेयसं जानन्सर्वेषां भूतानां निखिलानां स्थिरजङ्गमानां प्राणमेव प्रज्ञात्मानमभिसंभूय सहैतैः सर्वैरस्मात् । व्याख्यातम् । शरीराच्छरीराभिमानादुत्क्रामत्युत्तिष्ठति शरीराभिमानं परित्यजतीत्यर्थः । स वायुः प्रतिष्ठ आकाशात्मा स्वरेति । व्याख्यातम् । उपासकस्यैकत्वादेकवचन विशेषः । १ घ. च. 'स्थौ ता वा एताः सर्वा देवताः प्रा। २ च. हैवैतैः। ३ घ. च. स्माच्छरादु। ४ च. हैवैतैः । ५ घ. काजलरू । ६ च. प्रविष्टा आ । ७ घ. द्वान्प्राणे निःश्रेयसं विदित्वा सर्वे । च. "द्वान्प्राणे निःश्रेयसं विदित्वा प्रा । ८ घ. च. 'हैवैतः । ९ च. प्रविष्ट आ । १. च. तद्गच्छति । ११ घ. च. प्य यदमृता देवास्तदमृतो भवति य एवं वेद ॥ ९ ॥ १२ घ. प्रविष्टा वा । १३ च. हैवैतैः । १४ च. षः । एवं प्राणो ब्रह्मेत्युपासनं स्थाप्यत इति तत्फलमाह-स्वः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy