SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठः खण्डः ] कौषीतक्युपनिषत् । ११४-३० , जपं विधाय । अनेन वक्ष्यमाणेन मन्त्रेण सोमाभिमुखं दक्षिणं हस्तं निःसारयेदित्याहमास्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठाः अस्माकं सोमोपासकानां मुखबिलान्तः संचारिणा वायुना प्राणेन पुत्रादिरूपया प्रजया गवादिरूपैः पशुभिरस्मत्प्राणप्रजापश्वभावेनेत्यर्थः । माऽऽप्याययिष्ठा अस्मच्छत्रूनानन्दं मा नयेथाः ॥ Acharya Shri Kailashsagarsuri Gyanmandir योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्याययस्वेति देवीमावृतमावर्त आदित्यस्याssवृतमन्वावर्त इति दक्षिण बाहुमन्वावर्तते ॥ ५ ॥ " किंतु यः प्रसिद्धोऽस्मद्वेषी, अस्मान्सोमोपासकान्द्वेष्टि द्वेषं करोति यं च कृतापकारमकृतापकारं वा प्रसिद्धं प्रतिकूलम् चकारोऽस्मासु द्वेषिणोऽस्य च समुच्चयार्थः । वयं सोमोपासका द्विष्मो द्वेषं कुर्मः । तस्यास्मदज्ञातस्य वैरिणः प्राणेन प्रजया पशुभिठर्याख्यातम् । आप्याययस्वास्मानानन्दयेति एवमेतन्मन्त्रार्थरूपां देवीं देवेन भवता संपाद्यामावृतं संचरणक्रियामावर्ते समन्ताद्वर्तनं कुर्वे । आदित्यस्याग्नीषोमात्मकस्याऽऽ • संचरण क्रियामन्वावर्ते भवतः सोमस्य प्रसादमन्यावर्तनं कुर्वे । इति मन्त्रपरिसमाप्त्यर्थः । एतैर्मन्त्रैरित्यर्थः । दक्षिणं बाहुं दक्षिणं भुजं पूर्व सोमाभिमुखं नीतमन्वावर्तते I मन्त्रपाठमनु निःसारयति ॥ १ ॥ उपासनद्वयमुक्त्वा तृतीयमुपासनं पुनः सोमस्याऽऽह अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतvarssaar सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि अथामावास्योपासनात्प्रकृतादुपासनान्तरं कथ्यत इति शेषः । पौर्णमास्यां पञ्चद षोडशकलचन्द्रसहितायां पुरस्ताच्चन्द्रमसं दृश्यमानं स्वस्याभिमुखेन प्रत्यहं षोडशकलं सोममुपतिष्ठेतैतयैवाऽऽवृता पूर्ववद्व्याख्येयम् । उपस्थानमन्त्रमाह - सोम उमया विश्वप्रकृत्या सह वर्तमानः प्रियदर्शनः सोमो वा राजा दीप्तिमानसि भवसि । विचक्षणः सर्वलौकिकवैदिक कार्यकुशलः पञ्चमुखः पञ्चवदनोऽसि भवसि ॥ प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामनादं कुरु राजा त एकं मुखं तेन मुखेन विशोऽत्सि तेन मुखेन मामनादं कुरु श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन मुखेन मामनादं कुर्वनिष्ट एकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वयि पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु माऽस्माकं प्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभि १ क. घ. 'यस्वे । २ च. स्वेत्यैन्द्रीमा । ३६. 'स्वा । ४ च. संवरे । ५ घ. संवर' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy