SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-२९ शंकरानन्दविरचितदीपिका समेता - [२ द्वितीयाध्याये 1 प्रजाः पुत्रादिरूपा न प्रैति न प्रयन्ति न म्रियन्ते । इति नु, एवं खल्वयं प्रकार इत्यर्थः । जातपुत्रस्योत्पन्नसुतस्य न त्वनुत्पन्नसुतस्य । अथ जातपुत्रस्योपासनकथनानन्तरम् । अजातपुत्रस्यानुत्पन्नतनयस्योपासनप्रकारः कथ्यत इति शेषः । अजातपुत्रो जातपुत्रवत्सर्वं तन्त्रं संपाद्य हरिततृणे स्वीकृत्य यान्मन्त्राञ्जपेत्तानाह - आप्यायस्वाऽऽप्यायनं गच्छ । समेतु सम्यग्गच्छतु । ते तव त्वयीत्यर्थः । अयमृक्पादः श्रुत्या प्रतीकत्वेन पठितः । एतावृक्पादौ परिशिष्टौ विश्वतः सोम वृष्ण्यं भवा वाजस्य संगथे । विश्वतः सर्वतोऽग्निरूपात्पुरुषगात्रात् । सोम हे सोम स्त्रीरूप वृष्ण्यं वृष्णः पुरुषस्य हेतुभूतं शुक्र माग्नेयं तेजो वाजस्यान्नस्य संगथे संगते भव । अयमर्थः । पुत्रोत्पत्तिद्वारा पितॄणां पिण्डाद्यन्नदो भवेति । प्रजासंपत्त्या त्वदीयं वृष्ण्यमाप्यानं विश्वतः समेतु मह्यं विश्वतो वाजस्य संगमाय भवेति वाऽर्थः । इदानीं मन्त्रान्तरप्रतीकभूतं पादान्तरमाहसं ते पयांसि समु यन्तु वाजा इति । ते तव सोमात्मिकायाः प्रकृतेः संपयांसि सम्यक्क्षी - राणि स्तनेन्दु मेघमण्डलस्थानि समु यन्तु वाजा उ अपि वाजा वाजिनोऽनोपजीविनस्तनयान्संयन्तु सम्यग्गच्छन्तु । इदमपि पठितं श्रुत्या । शिष्टं पादत्रयम् — संवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व । संवृष्ण्यानि सम्यक्पुरुषोपकारीणि । अभिमातिषाहो वैरिसाहः पुत्रप्रवृच्या क्षीराणि वैरिणा - मभिभवकारीणीत्यर्थः । हे सोमामृतायामृतत्वाय पुत्रोत्पत्त्यर्थमित्यर्थः । आप्यायमानः स्वेनाऽऽग्नेयेन च तेजसाऽऽप्यायनमाह्लादनं गच्छन्दिवि स्वर्गे श्रवांस्युत्तमानि श्रवणयोग्यानि यशांसि प्रौढानि धिष्व धत्स्व ॥ तृतीयमन्त्रस्य प्रतीकं पादमाह - यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा यं तृतीयं प्रसिद्धं सर्वोत्पत्तिकारणम् । आदित्या अग्न्यात्मकाः पुमांसोऽशुं सूर्यस्य सौषुम्नं किरणं सोमं स्त्रीरूपमाप्याययन्त्याह्लादयन्ति । अस्य मन्त्रस्यापठितं श्रुत्या पादत्रयम् - यमक्षितमक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः । यं सोमं राजानं सूर्यं प्रकृतिरूपं सुषुम्नानाडीरूपेणाक्षितमक्षीणमक्षितयः क्षयशून्या आदित्यादयः पुरुषाः पतिपुत्रत्वादिना वर्तमानाः पिबन्ति लावण्यदुग्धादिरूपेण पानं कुर्वन्ति । तेनांशुनाऽक्षितरूपेण सुषुस्नानाम्नेत्यर्थः । नोऽस्मान्सोमस्योपासकान्भुवनस्य गोपा लोकस्य रक्षकः प्रजापतिर्ब्रहस्पतिर्वरुणो राजा चाऽऽप्याययन्त्वा नन्दयन्त्विति मन्त्रत्रयप्रतीकपादत्रयपरिसमाप्त्यर्थः । एता उक्तपादत्रयाद्यास्तिस्रस्त्रिसंख्याका ऋचः पादबद्धान्मन्त्राञ्जपित्वा वाचनिकं 1 १ घ. शुक्लमा । २ घ. °ति । इ' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy