SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५ पञ्चमः खण्डः] कौषीतक्युपनिषत् । ११४-२८ हरिततॄणाभ्यां वाक्मत्यस्यति यत्ते सुसीम हृदयमधि चन्द्रमसि श्रितं यत्प्रसिद्धं दृष्टं दुःखफलम् । अहोरात्राभ्यामहनि रात्रौ च पापं करोति स्पष्टम् । सं तद्बके तदशास्त्रीयं कर्म फलतः संवृते सम्यक्परित्यजति पापफलं न प्राप्नोतीत्यर्थः । एकमिदमुपासनं कर्मात्मकम् । इदानी द्वितीयमाहअथ पूर्वस्मात्कर्मरूपानुपासनात्प्रकृतादर्थादग्निरूपादादित्यादनन्तरं कर्मरूपमुपासनान्तरमादित्यस्य बाह्यप्राणस्य सुषुम्नानाडीरूपसोमात्मकं मासि मासि प्रतिमासमभ्यासबलादासंवत्सरमिति निश्चीयते । अमावास्यायाममाख्यरश्मौ सोमस्य निवासदिवसे पश्चाचन्द्रमसमादित्यस्य पश्चिमे भागे सुषुम्नाख्ये रश्मौ वर्तमानं सोमं दृश्यमानं शास्त्रतोऽवलोक्यमानमुपतिष्ठेत वर्णोद्वर्गसंवर्गमन्त्रैरुदये मध्याह्नेऽस्तमये चोपस्थानं कुर्यात्। एतयैव यज्ञोपवीतमित्यादिकयैव न त्वन्ययाऽऽनृता प्रकारेण । तत्र विशेषमाह-हरिततृणाभ्यामशुष्काभ्यां द्वाभ्यां दूर्वाङ्कुराभ्यां सहा-नन्तरं वाग्वाचं यत्त इत्यादिमन्त्ररूपां प्रत्यस्यति चन्द्रमसं प्रति अस्यति क्षिपति क्षिपेदित्यर्थः । वाचं मन्त्ररूपामाह-यत्प्रसिद्धं योषितां स्तनमण्डलाधारं ते तव सोमात्मिकायाः प्रकृतेः सुसीमं शोभनमर्यादावदादित्यात्मकपुरुषस्यैकदेशरूपं हृदयं हृदयपप्राकारं पञ्चच्छिद्रमधोमुखं मांसखण्डं हृत्तदयति गच्छति यदानन्दात्मस्वरूपं तब्दयम् । अधि चन्द्रमसि श्रितं चन्द्रमण्डलं स्तनाकारमधिकृत्य श्रितं वर्तमानम् ॥ तेनामृतत्वस्येशाने माऽहं पौत्रमघं रुदमिति न हास्मात्पूर्वाः प्रजाः प्रैतीति नु जातपुत्रस्याथाजातपुत्रस्याऽऽ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा तेनोक्तेन मन्द्रमण्डलस्थेन हृदयेन हेतुनाऽमृतत्वस्याऽऽनन्दरतिप्रजातिरूपस्यनिरतिशयानन्दाभिव्यक्तिहेतुत्वेन च निरपेक्षस्य मोक्षस्येशाने हे नियन्त्रि माऽहं पौत्रमघं रुदमहं सोमात्मिका स्त्री, अग्न्यात्मकः पुमानितिज्ञानवानघं पापं निरुपमदुःखकरं पुत्रसंबन्धि पुत्रस्य प्रागभावप्रध्वंसाभ्यां शारीरव्याध्यादिना संतत्याद्यभावेन च कृतं पौत्रं मा रुदं रोदनं मा कुर्याम् । तवेशानायाः प्रसादत इति शेषः । इति मन्त्रपरिसमाप्त्यर्थः । न हास्मात्पूर्वाः प्रजाः मैति, अस्मादुक्तप्रकारिणो ह प्रसिद्धादुपासकात्पूर्वाः प्रथमत एतन्मरणमन्तरेणेत्यर्थः । १ च. तृणे वा प्र । २ च. यन्मे । ३ च. मं तद । ४ च. 'दयं दिवि च । ५ च. 'तं मन्येऽहं मां तद्विद्वांसं माऽहं पुत्र्यम'। ६ चण । अमावास्यायां वृत्तायामिति पाठे द्वितीयायां चन्द्रोदय इति व्याख्यानम् । त। ७ च. वाचं । ८ घ. पं तद । ९ घ. °ण्डं त। १० च. न ह्यस्मा। ११ च. र्थः । मन्त्रे पाठान्तरं यन्मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितं मन्येऽहं मां तद्विद्वांसं माऽहं पुन्यमघं रुदमिति । तदाऽहं मां तस्य चन्द्रमसो विद्वांसं मन्य इत्यन्वयः । न । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy