________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-२७ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्यायेआधिदैविकस्त्वादित्यः । स चाग्नीषोमात्मकः । तत्राऽऽधिदैविकं प्राणमुररीकृत्य फलविशेषसिद्धयर्थं प्रथमतः कानिचिदुपासनान्याह
अथातः सर्वजितः कौपीतकेवीण्युपासनानि भवन्ति यज्ञोपवीतं कृत्वाऽप आचम्य त्रिरुदपात्रं प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे वृधीत्येतयैवाऽऽवृता मध्ये सन्तमुर्गोऽसि पाप्मानं म उदृधीत्येतयैवाऽऽवृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संधीति । अथ प्राणो ब्रह्मेतिकथनानन्तरम् । अतो यस्मात्फलान्तरस्यापीच्छोपासकस्यास्माकारणात्सर्वजितः स्ववर्णाश्रमाचारैनिखिलांस्त्रैवर्णिकाञ्जयतीति सर्वजित्तस्य कौषी. तके कुषीतकस्यापत्यस्य त्रीणि त्रिसंख्याकान्युपासनानि, आधिदैविकस्य प्राणस्य ज्ञानानि भवन्ति वर्तन्ते । कौषीतकिदृष्टानि कथयिष्यामीत्यर्थः । यज्ञोपवीतं कृत्वा यज्ञोपवीतं विधाय । यद्यपि त्रैवर्णिकत्वेनैव यज्ञोपवीतं प्राप्तं तथाऽप्यपसव्यादिविकारनिवारणार्थमिदं वचनम् । अप आचम्य स्पष्टम् । अपामाचमनमपि यज्ञोपवीतव. त्प्राप्तं तथाऽपि त्वरादिनिमित्तनिवारणार्थमवगन्तव्यम् । तेनोभयत्र नियमः सिद्धो भवति । त्रिस्त्रिवारमुदपात्रं सौवर्ण राजतं तानं वा चषकं प्रसिच्य शुद्धैः स्वच्छैजलैः प्रकर्षेण सेचनं विधायोद्यन्तमुदयं गच्छन्तमादित्यमदितिपुत्रं भास्करमुपतिष्ठेत जानुभ्यामवनिं गत्वा ससंभारनीरपूर्णचषकमुद्धृत्य समन्त्रमुपस्थानं कुर्यात् । मन्त्रमाहवर्गः सर्वमिदं जगदात्मबोधेन तृणवढङ्क्ते परित्यजतीति वर्गः । असि भवसि । पाप्मानं कृतमागामि च पापं फलस्वरूपेणैव मे मम समन्त्रकेणायेणाऽऽदित्यमुपस्थातुर्वृद्धि वर्जय विनाशयेत्यर्थः । इति मन्त्रसमाप्तौ । एतयैवोक्तयैव यज्ञोपवीतमित्यादिना न त्वन्यथा, आवृता प्रकारेण मध्ये सन्तं मध्याह्ने वर्तमानमादित्यमुपतिष्ठेत । उपस्थानमत्रमाह-उद्वर्गोऽसि पाप्मानं म उद्धीति । उदुत्कर्षार्थः । अतिशयेन नाशयेत्यर्थः । व्याख्यातमन्यत् । एतयैवाऽऽनृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संह
धीत्यस्तं यन्तमस्तं गच्छन्तमुपतिष्ठेत समित्यादिमन्त्रेण । सं सम्यगर्थः । व्याख्यातमन्यत् ॥ एवं त्रिवारमादित्यस्यायं कुर्वतः फलमाह
यदहोरात्राभ्यां पापं करोति सं तदृते । अथ मासि मास्यमावास्यायों पश्चाचन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता
१च. °न्ति सर्वजिद्ध स्म कौषीतकिरुद्यन्तमादित्यमुपतिष्ठते यज्ञोपवीतं कृत्वोदकमानीय त्रिः प्रसिच्योदपात्रं वर्गो । २ च ति तद्यदहोरात्राभ्यां पापमकरोत्सं तदृते तथो एवैवं विद्वानेतयैवाऽऽघृताऽऽदित्यमुपतिष्ठते । य । ३ च. यां वृत्तायां प।
For Private And Personal