SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४ चतुर्थः खण्डः] कौषीतक्युपनिषत् । ११४-२६ द्वानि पार्थादेः । भवति । स्पष्टम् । तथो एव उ अपि तद्वदेव न त्वन्यथा । एवं विद्वान्प्राणः श्रीयशस्तेजोबुद्धीनामालम्बनमिति जानश्रीयशस्तेजोबुद्धिरुपासक इत्यर्थः । सर्वेषां भूतानां निखिलानां स्थिरजङ्गमानां मध्ये श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति । स्पष्टम् । इदानीं त्रयीविद्यानां कृतसंसारफलान्तर्वर्तिनामपि प्राणविज्ञानं मोक्षसाधनमित्याहसमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋमयं होत ऋङ्मये साममयमुद्गाता स एष सर्वस्यै प्रयीविद्याया आत्मैप उ ऎवास्याऽऽत्मा एतदात्मा भवति य एवं वेद ॥४॥ समुक्थशब्दाभिधेयमृगादिबुद्धयालम्बनं प्राणमेतं मुखबिलान्तर्वर्तमानं प्रत्यक्षमिवैष्टकमिष्टकासंबन्धिरूपमैष्टकं कर्ममयं कर्मस्वरूपमात्मानमध्वर्युशब्दप्रत्ययालम्ब. नम् । अध्वर्युक्रत्विग्विशेषः प्राणबुद्धया संस्करोति, संस्कारं करोति योषितमिवामिबुद्धया । अयमर्थः । योऽयमिष्टकासु चितोऽग्निः कर्मसाधनः सोऽपि प्राणात्मक एवं प्राणस्य ऋगाद्यात्मकत्वात् । अयं च ऋगादिसाध्यकर्मनिष्पादकोऽहं च तत ऋगायात्मकः सर्वात्मा प्राणोऽहमस्म्ययमग्निश्च मदात्मक इत्यात्मानं संस्करोतीति । तस्मिपाणबुद्ध्या संस्कृतेऽग्न्यभिन्नात्मनि यजुर्मयं यजुःसाध्यं कर्मवितानं कुविन्द इव प्रवयति प्रकर्षेण कर्ममन्त्रतन्तुभिर्विस्तारयति । यजुर्मये यजुःसाध्ये कर्मविताने प्रवृत्ते सत्याधारभूते वा, ऋमयमृक्साध्यं कर्मवितानं प्रवयति होता, ऋत्विविशेषः । ऋअय अक्साध्ये कर्मणि प्रवृत्ते सत्याधारभूते वा साममयं सामसाध्यं कर्मवितानं प्रवयति । उद्गाता, ऋत्विग्विशेषः । सोऽध्वर्युः संस्कारहेतुः प्राण एष मुखबिलान्तस्थः सर्वस्यै सर्वस्या निखिलायास्त्रयीविद्यायास्त्रयी ऋग्यजुःसामरूपा सैव विद्या तस्या आत्माऽऽप्त्यादेः कर्ता शरीरस्येव जीवः । उक्तेन प्रकारेणोक्तमात्मानं शृङ्गयाहिकयाऽऽह-एष उ एव, उ अपि मुखबिलान्तस्थ एव न त्वन्यः । अस्याऽऽत्मा, अस्या उक्तायास्त्रय्या विद्याया आत्मोक्तः । इदानीमेतज्ज्ञाने फलमाह-एतदात्मा भवति, प्राणरूपो भवति । यः प्रसिद्धः कर्मण्यत्विग्यज. मानादिरेवं प्राणबुद्ध्या संस्कृतेऽध्वर्युरूपाग्नौ यजुर्मयमध्वर्युर्यजुर्मय ऋङ्मयं होता, ऋड्यये साममयमुद्गातेति वेद जानाति स एतदात्मा भवतीत्यन्वयः ॥ ४ ॥ प्राणो ब्रह्मेति कौषीतकिपैङ्गयशुष्कभृङ्गारमतैः सोपपत्तिकैरुक्तम् । तत्र च, ऋगादिदृष्टयः । स हि प्राणो बाह्य आध्यात्मिकश्च । बाह्य आधिदैविकः पुत्रादिरूपश्च । १च. धनुर्वदेव । २ च. 'ष त्रय्यै विद्याया आ' । ३ च. एवैतदिन्द्रस्याऽऽत्मा भ। ४ च. 'ति एं। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy