________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-२१
शंकरानन्दविरचितदीपिकासमेता - [२ द्वितीयाध्याये
पनीय परिस्तीर्य समन्ताद्दर्भानवकीर्य पर्युक्ष्य मन्त्रपूतेन वारिणा समन्तात्परिषिच्योत्याऽऽज्यं स्वगृह्येोक्तप्रकारेणोत्पवनसंस्कारेण संस्कृत्य दक्षिणं जान्वाच्य दक्षिणं जान्वधो निपात्य स्रुवेण वा चमसेन वा कंसेन वा । स्रुवचमसौ प्रसिद्धौ याज्ञिकानाम् । कंसं कांस्यदर्व्यादिकं तेन करणेन वा । त्रयं तु प्राप्तीच्छयोरनियत्यर्थम् । एता वक्ष्यमाणा आज्याहुतीराज्यविभागविशेषाञ्जुहोति जुहुयात् ॥
होममन्त्रानाह
वाङ्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां + तस्यै स्वाहा । प्राणो नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । चक्षुर्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा ।
वाङ्नाम देवता वागभिधाना देवताऽवरोधिनी, उपासकाभीष्टार्थसंपा दिका । सोता देवता मे मम प्राणोपासकस्यार्थेच्छोरमुष्मान्मदभीष्टार्थस्वामिनः सकाशादिदं मदभीष्टमर्थजातमवरुन्धामवरोधनं कुरुतां संपादयत्वित्यर्थः । तस्या उक्तनाम्न्यै देवतायै स्वाहा होमाहुतिमतदर्थप्रधानां स्वी करोतु स्वाहुतं स्वीकरोतु । प्राणो नाम प्राणाभिधाना । प्राणग्रहणं च तन्त्रेणावगन्तव्यम् । तेन प्राणाभिधानेति मन्त्रान्तरमनुक्तमपि सिद्धं भवति ।
श्रोत्रं नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । मनो नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । प्रज्ञा नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाऽऽज्यले पेनाङ्गान्यनु विसृज्य वाचंयमो ऽभिप्रव्रज्यार्थ' बुवीत दूतं वा प्रहिणुयाल्लेभते हैव ॥ २ ॥
श्रोत्रं नाम श्रोत्राभिधाना । प्राणचक्षुः श्रोत्रमनःप्रज्ञामन्त्रा वाङ्मन्त्रवद्व्याख्येयाः । प्रज्ञाया ब्रह्मत्वं चोक्तम् । इति मन्त्रपरिसमाप्त्यर्थः । अथ होमानन्तरं धूमगन्धं होमधूमगन्धं प्रजिघ्राय प्रतिघ्रायाऽऽघाणं कृत्वाऽऽज्यलेपेन होमावशिष्टाज्यले पेनाङ्गा - न्यनु विमृज्य होमधूमघ्राणमनु सर्वगात्राण्युपलिप्य वाचंयमो मौन्यभिप्रव्रज्य होमप्रदेशाद्यत्र क्वाप्यवस्थितमर्थस्वामिनं गत्वाऽर्थे स्वाभीष्टमर्थं बुवीतेदं मे त्वत्तो भूयादिति
* च. पुस्तके 'अवरोधनी' इति सर्वत्र मूले टीकायां च । + अवरुन्ध्यादिति च पुस्तके सर्वमूले टीकायां च ।
१ च. ° ब्रूयाद्भूतं । २ क. लभेते । ३ च प्रज्ञया । ४ च. र्थे ब्रूयाद्भुवीं ।
For Private And Personal