________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४ चतुर्थः खण्डः] कौषीतक्युपनिषत् ।
११४-२४ यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा पाणे जुहोति । स्पष्टम् । प्रसिद्धं हि सर्वजनीनं वदन्न श्वसिति श्वसन्न ब्रूते चेति ॥ इदानीमग्निहोत्रमाह
एते अनन्ते अमृताहुती जाग्रच स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः कर्ममय्यो हि .
भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रुः।। एते वाक्प्राणरूपे उक्ते अनन्ते असंख्यातव्यापाराधारे परस्पराग्नौ प्रविशन्त्यावप्यक्षीणे वा । अमृताहुती अन्तवद्धि म्रियते यतोऽन्तशून्ये ततोऽमृतरूपे आहुती अमृतत्वफलहेतुत्वाद्वाऽमृताहुती । जाग्रच स्वपंश्च जाग्रति स्वप्ने च। चकारौ जाग्रत्वप्नयोरितरेतरयोगार्थौ । संततं निरन्तरमागर्भनिर्गमनादोत्तरश्वासमव्यवच्छिन्नं भोजनाच्छादनादिव्यवधानशून्यम् । न हि वाक्श्वसनयोरन्यतरेण शून्यः कालो जीवतो जुहोति होमं करोति होमबुद्धिं कुर्यादित्यर्थः । एतदग्निहोत्रं स्तोतुमन्यं निन्दति । अथ पक्षान्तरे । याः प्रसिद्धाः पयोदध्यादिद्रव्यसाध्या अन्या वाक्प्राणाहुतिभ्यां व्यतिरिक्ता आहुतय आसेचनान्ता देवतामुद्दिश्य द्रव्यत्यागा अन्तवत्यः स्वरूपेण फलतोऽपि नाशवत्यः । तत्र हेतुमाह-ता वाक्प्राणाहुतिभ्यामन्यत्वेन प्रसिद्धाः कर्ममय्यः शरीरव्यापारसाध्याः कृतकाः फलतः स्वरूपतश्च हि यस्मात्तस्मादन्तवत्यो भवन्ति स्पष्टम् । अस्याग्निहोत्रस्य ज्ञाने सर्वसङ्गपरित्यागलक्षणं संन्यासमाह-एतद्ध वै पूर्वे विद्वांसः । ह प्रसिद्धाः । वै स्मर्यमाणाः पूर्वेऽतीताः । एतद्विद्वांसो वाच्यग्नौ भाषणव्यापारवत्यां प्राण आज्यं निःश्वासोच्छासव्यापारशून्यो हूयते । प्राणे चाग्नौ निःश्वासो च्छासव्यापारवति वागाज्यं भाषणव्यापारशून्या इयत इत्येतज्ज्ञानवन्तोऽग्निहोत्रं न जुहवांचकुरग्निहोत्रहोमं न कृतवन्तः । सर्वसङ्गपरित्यागलक्षणं संन्यासं कृतवन्त इत्यर्थः ॥
प्राणो वा उक्थमिति काण्यादिशाखासक्थशब्दस्य प्राणे प्रसिद्धत्वात्तां प्रसिद्धिमनुरुन्धाना श्रुतिः प्राणमुक्थशब्देन निर्दिश्य तत्र ऋगादिदृष्टीर्विधातुमस्य ब्रह्मत्वे कौषीतकिपैङ्गयवच्छुष्कभृङ्गारसंमतिमाह
उक्थं ब्रह्मेति ह स्माऽऽह शुष्कभृङ्गारस्तदृगित्युपासीत
सर्वाणि हास्मै भूतानि श्रेष्ठयायाभ्यर्चन्ते तद्यजुरित्युपासीत उक्थमुक्थशब्दाभिधेयः प्राणो ब्रह्मेति ह स्माऽऽह व्याख्यातम् । शुष्कभृङ्गार एतन्नामा मुनिः । तदुक्थमृगिति ऋग्वुद्धयोपासीत यावत्प्राण ऋगिति साक्षात्कारो भवति तावद्विनीयप्रत्ययशून्यं सजातीयप्रत्ययप्रवाहं कुर्वीत ।
१. च. ततं जु। २ च. वन्ति । तद्ध स्मैतत्पूर्वे । ..
For Private And Personal