________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ द्वितीयः खण्डः] कौषीतक्युपनिषत् ।
११४-२० तु याज्ञायां यदि वर्तते तदैवैनमुपमत्रयन्ते ददाम त इति व्याख्यातम् । एवं यात्रायाच्अयोर्गुणदोषान्पर्यालोच्य न याचेदित्यर्थः । यथा कौषीतकिस्तद्वत्पैङ्गायनामाऽप्यषिरित्याह-प्राणो ब्रह्मेति ह स्माऽऽह पैङ्गयस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणः पैङ्गयनामा पैङ्ग्यगोत्रो वा व्याख्यातमन्यत् । ननु मनोदूतत्वादिलक्षणेन ब्रह्मत्वं प्राणस्य यद्यपि तथाऽप्यप्रत्यक्त्वादब्रह्मत्वमपीत्यत आह-वाग्वागिन्द्रियात्परस्ता. त्परतश्चक्षुश्चक्षुरिन्द्रियमारुन्धे समन्तादावृत्य तिष्ठति । वाचश्चक्षुरान्तरमुक्तिवद्दष्टे प्रायेण विसंवादाभावात् । चक्षुश्चक्षुरिन्द्रियात्परस्ताच्छ्रोत्रमारुन्धे श्रोत्रं श्रवणेन्द्रियम् । व्याख्यातमन्यत् । चक्षुषा शुक्तिका रजतवत्पश्यति नत्वेवं श्रोत्रमविद्यमानं शृणोति । ततो युक्तं चक्षुष आन्तरत्वं श्रोत्रस्य । श्रोत्रं श्रोत्रेन्द्रियात्परस्तान्मनः संकल्पविकल्पात्मकमन्तःकरणम् । आरुन्धे व्याख्यातम् । मनसः सावधानत्वे श्रोत्रेण श्रवणं ततो युक्तं श्रोत्रादान्तरत्वं मनसः । मनो मनसः परस्तात्परत आन्तरः प्राणः पञ्चवृत्तिः । प्राणबन्धनं हि मनः प्रसिद्धम्। आरुन्धे समन्तादावृत्य तिष्ठतीत्यवगम्यते पण्डितरूपैः । एवमान्तरत्वेन ब्रह्मत्वं युक्तम् । तस्मै वा इत्यादि व्याख्यातं पूर्ववत् ॥ १ ॥ प्राणविदोऽर्थेच्छायां सत्यां कर्तव्यतामाह
अथात एकधनावरोधनं यदेकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमू(मु)ह्य परिस्तीर्य पर्युक्ष्योत्पूय दक्षिणं जान्वाच्य
सुवेण वा चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति अथ प्राणब्रह्मज्ञानानन्तरम् । अतो यस्मादिच्छा जातैतस्मात्कारणादेकधनावरोधनमेकधन इति प्राणस्य नामधेयं जगत्यस्मिन्नेक एव धनरूप एकधनः । प्राणांस्तु सततं रक्षेदारैरपि धनैरपीति न्यायेन प्राणस्य परमधनत्वात् । तस्यावरोधनमेकत्र स्थापनमेकधनावरोधनम् । अयमर्थः । सत्यामर्थेच्छायामाप्राप्तौ व्याक्षिप्तचेतसो न प्राणब्रह्मचिन्तनं वक्ष्यमाणेनोपायेनार्थप्राप्तौ प्रसन्नचेतसः प्राणचिन्तनस्य संभवादिदमेकधनावरोधनं स्यात् । यद्ययेकवनं प्राणमभिध्यायात्सर्वतो ध्यानं कुर्यादर्थेप्सुस्तदाऽर्थावाप्त्या इदं कुर्यादिति शेषः । अथवैकधनमनन्यलम्यं धनं तस्यावरोधनं प्राप्त्युपायस्तच नोचितम् । एवमपि यद्येकधनमभिध्यायात्प्राणोपासकस्तदा पौर्णमास्यां वाऽमावास्यायां वा वाशब्दाविच्छाविकल्पार्थो स्पष्टमन्यत् । शुद्धपक्षे वा शुक्लपक्षे । वाशब्दः कृष्णपक्षार्थः । तत्रापि पुण्ये धन्य आत्मनोऽ. नुकूल इत्यर्थः । नक्षत्रेऽश्विन्यादौ शास्त्रविहिते । अग्निमुपसमाधायाग्निं श्रौतं स्मात वा स्वशाखोक्तक्रमेण कुण्डस्थण्डिलादौ प्रतिष्ठाप्य परिसमू(मु)ह्य समन्तात्तृणादिकम
१ घ. च. आरुध्यते । २ च. पक्षविकल्पार्थः ।
For Private And Personal