SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-१९ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्यायेपासकस्योपनिषद्रहस्यव्रतं न याचेत्प्राणात्ययेऽपि याज्ञां न कुर्यात् । इत्युपनिषत्कथनसमाप्त्यर्थम् ।। तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेनाहमतो दत्तमश्नीयामिति । अयाज्ञायां दृष्टान्तमाह-तत्तत्रायाज्ञायां दृष्टान्तः । यथा दृष्टान्ते । ग्राम ब्राह्मणादिसमाकीर्णं देशविशेषं भिक्षित्वा भिक्षार्थ प्रतिगृहं गत्वाऽलब्ध्वैकमपि सिक्थमप्राप्योपविशेत्ततो भिक्षाप्राप्तौ निराशः सन्नुपवेशनं कुर्यात्तदप्राप्तौ संजातक्रोध एवंसंकल्पवान् । भिक्षुकस्य संकल्पमाह-नाहमतो दत्तमश्नीयामतोऽनेन ग्रामेण मिलितेनामिलितेन वा दत्तं समर्पितं नाश्नीयामहं भोजनं न करवाण्यहं भिक्षुकः। इत्यनेन प्रकारेण संकल्पः । ___ य एवैनं पुरस्तात्मत्याचक्षीरस्त एवैनमुपमश्रयन्ते ददाम त इति । एष धर्मो याचितो भवति ॥ य एवादातृत्वेन प्रसिद्धा एव न त्वन्ये । एनं स्वस्मादप्राप्तभिक्षं स्वेभ्यो विगतस्पृहं पुरस्तात्पूर्वमस्मात्संकल्पात्मत्याचक्षीरन्गच्छास्मत्तो न दास्याम इति निराकरणं कुर्युस्त एव प्रत्याख्यातार एव न त्वन्ये । एनमयाचकं तन्मुखावलोकनपराङ्मुखमुपमत्रयन्त उपमन्त्रणं कुर्वन्ति । ददाम दानं करवाम ते तुभ्यं पूर्वमस्मत्प्रार्थकायेदानीमपगताशाय । इत्यनेन प्रकारेण । एष प्रत्यक्षो दीनवक्त्रत्वादिलक्षणो धर्मो गुणविशेषः । योचितो याचको याचकस्य । भवति स्पष्टम् ॥ अन्यतस्त्वैवैनमुपमत्रयन्ते ददाम त इति।प्राणो ब्रह्मेति ह स्माऽऽह पैङ्गयस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताच्चक्षुरान्धे चक्षुः परस्ताच्छोत्रमारुंन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्माण आरुन्धे तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचे. दिति तद्यथा ग्राम भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति य एवैनं पुरस्तात्मत्याचक्षीरस्त एवैनमुपमत्रयन्ते ददाम त इत्येष धर्मो योचितो भवत्यन्यंतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥१॥ अन्यतस्त्वेव तुशब्दः पक्षान्तरेऽन्यस्मानिस्पृहः प्रसन्नवदनोऽन्य एवायाज्ञायामेव न . १च. याचतो । २ च. याचतो याचक । ३ च. न्यदास्त्वे । ४ च. रुन्धते च । ५ च. "रुन्धते श्री । ६ च. रुन्धते म । ७ च. 'रुन्धते त। घ. 'रुन्ध्यते च त। ८ च रन्त्येवं हैवा'। ९.घ. च. याचतो। १० च. 'न्यदास्त्वे'। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy