SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-१७ शंकरानन्द विरचितदीपिकासमेता - [२ द्वितीयाध्याये स्थिते च करणत्वे प्राणस्य पुरुषत्वाद्वाचः स्त्रीत्वाच्च वाक्प्राणयोर्विभागेन करणत्वमविरुद्धम् । प्रतर्दनाग्निहोत्रे च वाक्प्राणयोनमाप्तौ करणत्वमर्थाद्वक्ष्यति - यावद्वा इत्यादिना । इति ब्रूयात् । व्याख्यातम् । तं पादेन पर्यङ्कमारूढमुक्तोत्तरवादिनमाह पर्यङ्कस्थो ब्रह्मा ब्रूते ॥ ब्रह्मोक्तिमाह आपो वै खलु मे ह्यसावयं ते लोक इति सा या ब्रह्मणो जितिर्या व्यष्टिस्तां जिति जयति तां व्यष्टिं व्यश्रुते य एवं वेद य एवं वेद || ६ || इति ऋग्वेदान्तर्गत कौषीतकि ब्राह्मणारण्यकोपनिषदि प्रथमोऽध्यायः ॥ १ ॥ कौषीतकिब्राह्मणारण्यकक्रमेण षष्ठोऽध्यायः ॥ ६ ॥ आपोऽशब्दाभिधेयान्यप्रधानानि पञ्चीकृतपञ्चमहाभूतानि सभौतिकानि वै प्रसिद्धानि लोकवेदयोः खलु निश्चितमनुपचरितमित्यर्थः । मे मम सर्वत्रष्टु हिरण्यगर्भस्य परब्रह्माभिन्नस्य हि यस्मादापो मम तस्मादसावम्मयो मदीयोऽनेकको - टियोजनविस्तीर्णः सर्वसुखभूमिरयं प्रत्यक्षो मन्निवासस्ते तव मदुपासकस्य मदभिन्नस्य लोको ब्रह्मलोको यावन्मदीयं तावत्त्वदीयमित्यर्थः । इत्यनेन प्रकारेण तमाहेत्यन्वयः । इदानीमुक्तोपासनस्य फलं संक्षेपेण श्रुतिराह - सा शास्त्रैकवेद्याऽऽप इत्यादिना प्रकृता या प्रसिद्धा ब्रह्मविदां ब्रह्मणः पर्यङ्कस्थस्य हिरण्यगर्भस्य जितिर्जयरूपा सेर्वनियतृत्वमित्यर्थः । या प्रसिद्धा व्यष्टिर्व्याप्तिः सर्वात्मकत्वमित्यर्थः । तामुक्तां जिति जयरूपां जयति स्वाधीनां करोति । तामुक्तां व्यष्टिं व्याप्तिं व्यश्रुते व्याप्नोति । व्याप्तारमाह-- यः प्रसिद्ध उपासक एवं वेद, उक्तेन प्रकारेण पर्यङ्कस्थं ब्रह्मोपास्ते । य एवं वेद । व्याख्यातम् । वाक्याभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥ ६ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यशंकरानन्दभगवतः कृतौ कौषीतकि ब्राह्मणोपनिषद्दीपिकायां प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः । प्रथमेऽध्याये पर्यङ्कविद्योक्ता । तत्र चोक्तं स आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्येत्यादिना प्राणस्य महाप्रभावत्वम् । उपासकश्च मन्दमध्यमोत्तमभेदेन त्रिविधो भवति । तत्र यः सकृदुक्तं सोपपत्तिकं गृह्णाति स उत्तमः | यस्त्वनेकश उच्यमानमात्मानं गुरुं च संक्लेश्य गृह्णाति स मन्दः । यस्तु गुरूक्तं गृह्णन्स्वचित्तं निरोद्धुमशक्तः १ घ. च. मे लोकोऽयं तेऽसाविति । २ च. सर्वातिशायित्व । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy