SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १ षष्ठः खण्डः] कौषीतक्युपनिषत् । ११४-१६ ... इति शरीरेणेति केनाऽऽनन्दं रति प्रजातिमित्युपस्थेनेति । केन करणेन रूपाणि तेजोबन्नगुणभूतानीत्यनेन प्रकारेण । उत्तरमाह-चक्षुषा नेत्रेण साधिदैविकेन करणेन । इत्यनेन प्रकारेण । केन स्पशास्त्वचेति प्रश्नोत्तरे बहिरेवावगन्तव्ये । पुनः पृच्छति-केन करणेन शम्दान्ध्वनिवर्णपदवाक्यादिरूपान् । इत्यनेन प्रकारेण । उत्तरमाह-श्रोत्रेण शब्दोपलब्धिकरणेन साधिदैविकेन । इत्यनेन प्रकारेण । पुनः पृच्छति-केन करणेनाबरसानन्नस्यादनीयस्य लेह्यपेयचोष्यभोज्यस्य रसान्कटुकाम्ललवणतीक्ष्णकपायमधुररसान् । इत्यनेन प्रकारेण । उत्तरमाह-जिह्वया रसनेन्द्रियेण साधिदैविकेन । इत्यनेन प्रकारेण । पुनः पृच्छति-केन करणेन कर्माण्यादातव्यानि । इत्यनेन प्रकारेण । उत्तरमाह-हस्ताभ्यां हस्तद्वयरूपेण करणेन साधिदैविकेन । इत्यनेन प्रकारेण । पृच्छति-केन करणेन मुखदुःखे अनुकूलप्रतिकूलवेदनीये । इत्यनेन प्रकारेण । उत्तरमाह-शरीरेण स्थूलसूक्ष्माख्येण पुण्यापुण्यसहकृताज्ञानहेतुना देहेन । इत्यनेन प्रकारेण । पुनः पृच्छति-केन करणेनाऽऽनन्दं मैथुनावसानसमुत्थं मुखं रतिमैथुनरागनं सुखमामैथुनावसानं योषिदालिङ्गनमारभ्य । प्रजाति प्रजाः कन्यासुतादिरूपाः । इत्यनेन प्रकारेण । उत्तरमाह-उपस्थेनोपस्थाख्येन करणेन स्त्रीपुंसलिङ्गभेदभिन्नेन साधिदैविकेन । इत्यनेन प्रकारेण ॥ पुनः पृच्छति केनेत्या इति पादाभ्यामिति केन धियो विज्ञातव्यं कामानिति प्रहयेति ब्रूयात्तमाह। . केन करणेनेत्या गतीः । इत्यनेन प्रकारेण । उत्तरमाह-पादाभ्यां पाद द्वयाख्येन करणेन साधिदैविकेन । इत्यनेन प्रकारेण । पृच्छति-केन करणेन धियो बुद्धिवृत्तीः । विज्ञातव्यं धियां विषयज्ञानं कामान्विविधेच्छापरपर्यायरूपान् । इत्यनेन प्रकारेण । उत्तरमाह-प्रज्ञया स्वयंप्रकाशेनाऽऽत्मबोधेन । यद्यपि सर्वमिदमनयैवाऽऽप्यते तथाऽपि वागादिकं नामाद्यवाप्तौ साक्षात्करणमस्ति व्यवधायकं नत्वेवं बुद्धयादौ किंचिदस्ति । यद्यपि सुखदुःखे अपि प्रज्ञैकवेद्ये तथाऽपि मम पादे सुखं शिरसि च दुःखमित्यादिप्रत्ययानुसारेण शरीरेणेत्युक्तम् । यद्यपि नाममात्राप्तौ करणं वाक्प्राणश्च जीवनमन्तरेण न करणम् । मनश्च सर्वोपलब्धिसाधारणं करणम् । तथाऽपि स्त्रीपुंसव्यक्तिवज्झटित्येव नपुंसकव्यक्तेर्बाह्यकरणैः प्रत्ययानुदयादस्ति नपुंसकाधिगमे मनसोऽभ्यधिको व्यापारो यतस्तत उक्तं मनसा नपुंसकानीति । प्राणस्य जीवनमन्तरेणाकरणस्यापि वाग्व्यापारसहकारित्वाद्वाक्प्राणौ नामाप्तौ करणं भवतः । १ च. 'प्यचळभो । २ घ. मारब्धेन पु । ३ च. प्रजातीः । ४ घ. च. जयैवेति। १५--२ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy