________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-१५ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेसत्यं सत्यशब्दरूपमित्यनुकरणार्थः । एतावद्यत्परिमाणमिदं प्रत्यक्षादिप्रमाणगम्यं सर्व निखिलं जगत् । इदानीं श्रुतिराह-इदं सर्वमसि, इदं प्रत्यक्षादिप्रमाणगम्यं सर्वं निखिलं भूतभौतिकात्मकं जगम त्वं भवसि ॥
इत्येवैनं तदाऽऽह [+तदेतदृक्श्लोकेनाभ्युक्तम् । यजूदः सामशिरा असामूर्तिरव्ययः। स ब्रह्मेति स विज्ञेय ऋषिब्रह्ममयो महा
निति ।]तमाह केन मे पौंस्यानि नामान्यामोषीति प्राणेनेति ब्रूयात् । इत्येवैनं तदाऽऽह तदा तस्मिन्ब्रह्मणो मञ्चकसमीपागमनकाल इत्येवोक्तेनैव प्रकारेण न त्वन्येन । एनं ब्रह्माणम् । आहोपासकः समागतो ब्रूते । तैमुपासकं स्वात्मनः सर्वात्मत्वं ब्रुवाणमाह ब्रूते ब्रह्मा । केन करणभूतेन रूपेण वा मे मम ब्रह्मणः सर्वात्मनः पौंस्यानि पुंलिङ्गसंबन्धीनि नामानि नामधेयानि । आमोषि प्राप्नोति । इत्यनेन प्रकारेण ब्रह्मणा पृष्टे प्राणेन पञ्चवृत्त्यात्मकेन साधिदैविकेन करणेन रूपेण वा । इति ब्रूयात् , अनेन प्रकारेण प्रत्युत्तरं वदेदुपासकः ॥ पुनर्ब्रह्मा पृच्छतिकेन स्त्रीनामानीति वाचेति केन नपुंसकानीति मनसेति केन
गन्धानिति प्रोणेनेत्येव ब्रूयात् । केन करणेन रूपेण वा स्त्रीनामानि स्त्रीलिङ्गनामधेयानि । आफ्नोषीत्यत्र वक्ष्यमाणेषु चानुवर्तते । इत्यनेन प्रकारेण पृष्टे । वाचा प्राणनिष्पाद्यया वर्णाभिव्यक्तिहेतुभूतया । इत्यनेन प्रकारेण ब्रूयादित्यनुवर्ततेऽत्र वक्ष्यमाणेषु च । पुनः पृच्छति-केन करणेन रूपेण वा नपुंसकानि नपुंसकलिङ्गनामानि । इत्यनेन प्रकारेण । पृष्ट उत्तरमाह-मनसाऽन्तःकरणेन साधिदैविकेन । इत्यनेन प्रकारेण । पुनः पृच्छति-केन करणेन गन्धान्मृथिव्येकगुणान् । इत्यनेन प्रकारेण । उत्तरमाहप्राणेन साधिदैविकेनेत्येव ब्रूयात्, अनेनैव प्रकारेण वदेत् । ब्रूयादित्यनुवर्तत इत्येतदर्थं मध्ये च ग्रहणमन्तेऽपि ग्रहीष्यति । एवकारः प्राणशब्दस्य द्विरभिधानं कथं करणीयमितिशङ्कानिवारणार्थः । पुनः पृच्छति
केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति केन सुखदुःखे + एतच्चिदान्तगर्तग्रन्थस्य व्याख्यानं त्रुटितम् । क. पुस्तके त्वयं ग्रन्थो नात्येव ।
१ च. तच्छ्लोके । २ च. पौंस्तानि । ३ च. तदेतच्छ्लोकेनाभ्युक्तम् ॥६॥ श्रुत्याऽप्येतत्स. त्मित्वमुक्तमित्युपासकः श्रुतिमुदाहरति । तनु । ४ च. पौंस्तानि । ५ क. घ्राणेनेति । ६ घ. च. 'नेति के । ७ घ. घ्राणेन । ८ च. ध्येऽपि न ।
For Private And Personal