SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११४-१३ शंकरानन्दविरचितदीपिका समेता - [१ प्रथमाध्याये नातीनानि यजूंषि तिरवीनानि सोमांशव उपस्तरणमुद्द्रीय उपश्रीः श्रीरुपबर्हणं तस्मिन्ब्रह्माऽऽस्ते तमित्थंवित्पादेनैवाय आरोहति । बृहद्रयंतरे अनूच्ये दक्षिणोत्तरयोदीर्घे खट्वाङ्गे अनूच्यसंज्ञे बृहद्रथंतरसामनी । भद्रयज्ञायज्ञीये शीर्षण्ये पूर्वपश्चिमयोर्हस्वे खट्वाङ्गे पादाधारे शीर्षण्ये शीर्षपादस्थले भद्रयज्ञायज्ञीयसामनी । एवं कोष्ठचतुष्टये पादचतुष्टयेन निष्पन्ने पट्टिकामाह - ऋचश्च सामानि च प्राचीनातीनानि । प्राक्प्रत्यगुपर्यधोभागेन वर्तमाना दीर्घाः पट्टिकाः प्राचीनातीनानि तदृचश्च सामानि च । चकारावृक्सामयोरधउर्ध्वभागनियमार्थौ । यजूंषि तिरवीनानि यजूंषि प्रसिद्धानि दक्षिणोत्तरयोस्तिर्यक्पट्टिकारूपाणि । सोमांशव उपस्तरणं सोमकिरणाः सुकोमलकशिपुस्वरूपम् । उद्गीथ उपश्रीः उद्गीथः सामभक्तिविशेषः । उपस्तरणस्योपर्यापादमस्तकं प्रक्षिप्यमाणं क्षीरगौरं मृदुतरं वस्त्रमुपश्रीस्तदुद्गीथः । श्रीरुपवर्हणमुच्छीर्षकं लक्ष्मीः । यद्यपीयं पादत्वेन पूर्वमुक्ता तथाऽपि पूर्वा लौकिक्युत्तरा तु वैदिकीति विभागात्पुनरुक्तिर्न दोषः । तस्मिन्प्राणपर्यङ्के भूर्त चेत्यारभ्य श्रीरुपबर्हणमित्यन्तेनोक्ते । ब्रह्माssस्ते हिरण्यगर्भस्वरूपं स्वतादात्म्येनोपास्यमानमुपविष्टं वर्तते । तं ब्रह्मण आसनभूतं पर्यङ्कमुक्तमित्थंविदुक्तपर्यङ्कस्थेन ब्रह्मणा तादात्म्यवित्पादेनैव चरणेनैव नतु पादावधस्तात्प्रक्षिप्य जघन कराद्यारोपणेनाग्रे प्रथमत आरोहत्यारोहणं करोति ॥ www Acharya Shri Kailashsagarsuri Gyanmandir तं ब्रह्मों पृच्छति कोऽसीति तं प्रतिब्रूयात् ॥ ५ ॥ तं पादेनैवाक्तपर्यङ्कमारोहन्तं प्रियं पुत्रमित्र पिता ब्रह्मां पृच्छति हिरण्यगर्भो ब्रूते । ब्रह्मोकिमाह- कः प्रश्नेऽसि भवसीत्यनेन प्रकारेण श्रुतिः शिक्षयति तं को - सीति ब्रुवाणं ब्रह्माणं प्रतिब्रूयात्प्रत्युत्तरं वदेत् ॥ १ ॥ वक्तव्यं प्रत्युत्तरमाह ऋतुरस्यार्तवोऽस्म्याकाशाद्योः संभूतो भया एतत्संवत्सरस्य तेजो भूतस्य भूतस्य भूतस्य भूतस्याऽऽत्मा १ च. 'तानं य' । २ च. 'तानम् । प्रा' । ३ च ५ च. 'ह्माऽऽह हि' । ६ च भार्यायै रेतः संव । ७ च - ऋतुरस्मि वसन्ताद्यूतुस्वरूपो भवामि । कालात्मकत्व उपपत्तिमाह-आर्तवोऽस्मि, ऋतुसंबन्धी भवामि । कालात्मकेन मया संबन्धात् । मम कालात्मनस्त्वया तादृशेनाभेदप्राप्तिर्यतस्ततः कालः कालसंबन्धी चाहं भवामीत्यर्थः । तर्हि किं यथा चन्द्रमसः समागत ऋतुरार्तवश्च तथेत्याशङ्कय नेत्याह - आकाशादव्याकृताद्योनेरुपादानकारणात्संभूत उत्पन्नो भाँयाः स्वयंप्रकाशाद्ब्रह्मणः । अयमर्थः । For Private And Personal तानं तदृच । ४ क. ह्माऽऽह को | भार्यायै भार्यायाः ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy