SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६ पञ्चमः खण्डः] कौषीतक्युपनिषत् । ११४-१२ व्याख्यातम् । स आस्वादितब्रह्मरस आगच्छति प्राप्नोति । अपराजितमायतनमपराजितनामकं ब्रह्मगृहम् । तं प्राप्तापराजितं ब्रह्मतेजोऽदृष्टपूर्वं सर्वतेजसां न्यक्का. रकारकं ब्रह्मलोक एवाऽऽसक्तिकारकं चक्षुर्द्वारा प्रविशति व्याख्यातम् । स प्रविष्टब्रह्मतेजा आगच्छति प्राप्नोति ॥ इन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स आगच्छति विभुप्रमितं तं ब्रह्मतेजः प्रविशति स आगच्छति विचक्षणामासन्दी बृहद्रथंतरे सामनी पूर्वी पादौ श्यैतनौधसे चारौ वैरूपवैराजे अनूच्ये शाकररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छत्यमितौजसं पर्यकं स प्राण स्तस्य भूतं च भविष्यच्च पूरौं पादौ श्रीवेरा चापरौ इन्द्रप्रजापती द्वारगोपाविन्द्रप्रजापतिनामानौ द्वाररक्षाकारको द्वारस्थौ ताविन्द्र. प्रजापतिद्वारस्थौ । अस्मात्प्राप्तब्रह्मगन्धरसतेजसो ब्रह्मण एव दर्शनमात्रेण बद्धाञ्जली परित्यक्तासनौ द्वारप्रदेशात्सरभसं जय जयेति शब्दमुच्चारयन्तौ । अपद्रवतोऽपसरतः। सोऽपदावितेन्द्रप्रजापतिरागच्छति प्राप्नोति । विभुप्रमितं विभुनामकं प्रमितं सभास्थलम् । तं प्राप्तविभुप्रमितं ब्रौतेजो ब्रह्माहमस्मीति प्रकृतेरहंकारो मनसा द्वारेण प्रवि. शति, व्याख्यातम् । स प्राप्तब्रह्मतेजा आगच्छति प्राप्नोति विचक्षणामासन्दी विचक्षणेतिनामिकाम् । तस्या आसन्धाः प्रकारमाह-बृहद्रथंतरे सामनी अस्याः पूर्वी पादौ श्यैतनौधसे सामनी अस्या अपरौ पादौ वैरूपवैराजे सामनी अस्या अनूच्ये दक्षिणोत्तरे अत्रे शाकररैवते सामनी अस्यास्तिरश्ची पूर्वपश्चिमे सा चतुरसा वेदी प्रज्ञा। सा विचक्षणाऽऽसन्दी प्रज्ञा महत्तत्त्वरूपिणी बुद्धिः । तत्राऽऽगतस्य फलमाह-प्रज्ञया हि विपश्यति हि यस्माद्विचक्षणां प्राप्तस्तस्मात्प्रज्ञयाऽऽत्मबुद्ध्या विविधं विश्वं पश्यति । स प्राप्तप्रज्ञः । आगच्छति प्राप्नोति । अमितौजसं पर्यम्। अमितौजोनामकं पर्यङ्कम् । स प्राणः पञ्चवृत्तिः सर्वेन्द्रियेभ्योऽभ्यधिकः क्रियाशक्तिः। तस्यामितौजसः पर्यङ्कस्य भूतं च भविष्यच पूर्वी पादौ मस्तकाधारगात्रस्याधस्ताद्वर्तमानौ प्राच्यां दिशि चरणातीतं भावि च विश्वम् । चकारावेकैकस्यैकैकपादत्वार्थौ । श्रीश्चेरा चापरौ, इरा इला । पादगात्रस्याधस्ताद्वर्तमानौ पश्चिमायां दिश्यन्यौ चरणौ लक्ष्मीधरणी च । चकारौ पूर्ववत् ॥ बृहद्रथंतरे अनूच्ये भद्रयज्ञायज्ञीये शीर्षण्ये ऋचश्च सामानि च प्राची. १ क. च. ह्मयशः प्र। २ क. "न्दी सा । ३ च- रौ पादौ वै । ४ च. ह्मयशो ब्र। ५ च. ति ब्रह्मकीतिर । ६ च. ह्मयशा आ । ७ घ. काम् । सा विचक्ष । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy