SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-११ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्याये ननु सुकृतदुष्कृतयोः सतोः कथं परित्याग इत्याशक्य यथाऽग्निना सतां काष्ठानां दाहस्तथेति परमं परिहारं परित्यज्य प्रसङ्गाद्ब्रह्म विदुषि प्रीतिद्वेषयोः फलं विवक्षुब्रह्मविद्यां स्तौति-- तस्य पिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयत्रथचक्रे पर्यवेक्षत एवमहोरात्र पर्यवेक्षत एवं सुकृतदुष्कृते सर्वाणि च द्वंद्वानि स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रेति ॥ ४ ॥ तस्य ब्रह्म विदुषः शत्रुमित्रादिसमबुद्धेः प्रियाः प्रीति कुर्वाणा ज्ञातयो ज्ञात्युपलक्षिता मनुष्याः सुकृतं पुण्यमुपयन्ति प्राप्नुवन्ति विष्णोरिव प्रियाः । अप्रिया ब्रह्म विदुषि विद्वेषं कुर्वाणा दुष्कृतं पापमुपयन्तीत्यनुवर्तते । नन्विदमतिचित्रं यो हि यत्करोति न स तत्प्राप्नोतीत्याशक्य दृष्टान्तेन समाधानमाह-तत्तत्र कारयितुरैलेपे यथा दृष्टान्ते । अयं दृष्टान्तः-रथेन निमित्तभूतेनै कारणेन धावयन्भूमौ प्रेरयव्रथचके रथाङ्गे पर्यवेक्षते भूमौ संयोगवियोगफलवती रथचक्रे समन्तादवलोकयते न तु तत्फलं प्राप्नोति । एवमनेन प्रकारेणान्तःकरणशरीरादिकृतादृष्टनिमित्तं प्रवर्तमाने अहोरात्रे सत्र्यहनी पर्यवेक्षते समन्तादवलोकयति । एवं यथा रात्र्यहनी पर्यवेक्षते तथा सुकृतदुष्कृते पुण्यपापे न केवलं ते एव किंतु सर्वाणि च द्वंद्वानि च्छायातप. शीतोष्णमुखदुःखादीनि निखिलान्यपि द्वंद्वानि पर्यवेक्षते न तु तत्फलभाग्भवति । न हीक्षितुः फलं कलहादेष्टुमध्यस्थस्य दुःखस्यादर्शनात् । स उपासक एष प्राप्तब्रह्मलोको ब्रह्मलोकप्राप्तेः पूर्वमेव विसुकृतो विदुष्कृतोऽपगतपुण्योऽपगतपापो ब्रह्म विद्वा. न्ब्रह्मैवाभिप्रैति व्याख्यातम् ॥ ४ ॥ स आगच्छतील्यं वृक्षं तं ब्रह्मगन्धः प्रविशति स आगच्छति सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति स आगच्छत्यपराजित. मायतनं तं ब्रह्मतेजः प्रविशति स आगच्छति । स उपासक उत्तीर्णविनर आगच्छति प्राप्नोति । इल्यं वृक्षमिल्यनामानं वृक्षं तं प्राप्तेल्यवृक्षं ब्रह्मगन्धोऽननुभूतपूर्वः सर्वसुरभिगन्धातिशयी ब्रह्मगन्धो येनाऽऽघातेन ब्रह्मलोकव्यतिरिक्तलोकेषु सुगन्धेष्वपि दुर्गन्धबुद्धिर्भवति तादृशो विवराहाणामिव मनुष्यजन्मन्याघ्रातश्चम्पकादिगन्धो विड्गन्धे दुर्गन्धबुद्धिजनकः प्रविशति प्राणद्वारेणान्तर्हृदयकमलमुकुलमागच्छति । स आघातब्रह्मगन्ध आगच्छति प्राप्नोति सालज्यं संस्थानं सालज्यनामकं पत्तनम् । तं प्राप्तसालज्यम् । ब्रह्मरसोऽनास्वादितपूर्वोऽन्यरसहेयताबुद्धिजनको ब्रह्मलोक एवाऽऽसक्तिजनकोऽपूर्वो रसो रसनाद्वारेण प्रविशति १ घ. 'न साधनमा" । २ घ. रलोपे । ३ च. "न कर' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy