SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११४-७ शंकरानन्दविरचितदीपिकासमेता - [१ प्रथमाध्याये दिष्टे पुनः कोऽसीति पृष्टे शिष्य आह-त्वं ममोपदेष्टा प्राणप्रज्ञात्माऽवस्थात्रयातीतः सगुणत्वेन पर्यङ्के समासीनोऽस्मि भवामि । विचक्षणादृतोः पञ्चदशात्प्रसूतात्पितृमत आभृतं रेतो यत्तन्मां हे देवाः पुंसि कर्तरि प्रेरितवन्तः । ततः पुंसा कर्त्रा निमित्तेन मातर्यपि मां सेचितवन्तः । द्वादशत्रयोदशेन पित्रैक्यं गत आसं संवत्सरो द्वादशत्रयोदश उपमासस्तद्विदे प्रतितद्विदे जाय उपजायमानो वर्त इति यतस्ततो मेऽमर्त्याय ब्रह्मज्ञानपरिपूर्त्यर्थमृतुरूपायु भरध्वम् । यस्मादेवं जानानो देवान्प्रार्थये तेन सत्येन तेन तपसा द्वा(च)र्तुरस्म्यार्तवोऽस्मीति संबन्धः । विचक्षणादित्यारम्याऽऽभरध्वमित्यन्तं त्वर्थमुपद्धातनयेनातो न व्यधिकरणत्वशङ्काडापे । प्रार्थनायामपि शब्दतो लभ्यमानानामृतूनां वा प्रार्थना । अस्मिन्पक्षे त्वेवं व्याख्येयो मन्त्रो हे विचक्षणा हे ऋतवः । यतोऽहं ब्रह्मज्ञानार्थी तन्मे मां हे ऋतवो हे मर्त्यवी मृत्युहेतवः समानमन्यद्देवपक्षेण । इत्यनेन प्रकारेण प्रतिब्रूयादित्यन्वयः । तं विचक्षणादादित्वमस्मीत्यन्तं ब्रुवाणं नरकादिव चन्द्रमसोsपि भीतं ब्रह्मविदमतिसृजते । संसारादतीत्योत्पादयति ब्रह्मविद्यया विमोक्षयतीत्यर्थः ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir स एतं देवयानं पन्थानमापद्यानि लोकमागच्छति स वायुलोकं स आदित्यलोकं सगुणब्रह्मविदो देवयानमार्गमाह-स सगुणब्रह्मवित्पर्यङ्काद्यन्यतमविद्यावान्प्राणप्र याणसमये प्राज्ञेनाऽऽत्मनैकीभूतो हृदयाग्रप्रद्योतनेन प्रदर्शितमुषुम्नाद्वारः । एतं वक्ष्यमाणम् । देवयानं देवैरर्चिरादिभिरुह्यमानेनोपासकेन प्राप्यत इति देवयानस्तम् । पन्थानं मार्गमा सुम्नाद्वारा मूर्धानं भित्त्वा निर्गतः प्राप्य प्रथममत्रिलोकमये देवयानमार्गोपक्रमे सगुणब्रह्मविदो नयतीत्यग्निः स चासौ लोकः प्रकाशश्चाग्निलोकस्तमर्चिरभिमानिनीं देवतामित्यर्थः । आगच्छति प्राप्नोति । ततोऽहरापूर्यमाणपक्षोदगयनषण्माससंवत्सर देवलोकाभिमानिनीर्देवता यथाक्रमेण प्राप्यानन्तरं स प्राप्तदेवलोको वायुलोकं वायुदेवता मागच्छतीत्येतद्वक्ष्यमाणेष्वप्यनुषज्यते । स वायुदत्तरथचकच्छिद्रोपममार्गों वायुलोकादनन्तरमादित्यलोकमादित्यदेवतां डम्बराकाशसमानमार्गदात्री चन्द्रमसः पूर्व भाविनीम् ॥ स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं तस्य ह वा एतस्य ब्रह्मलोकस्य १ घ. 'रभव' | - स आदित्यलोकात्प्राप्तचन्द्र विद्युलोको विद्युलोकादमानवेन पुरुषेण नीयमानो वरुलोकं वरुणदेवतां सोऽमानवेन पुरुषेण नीयमानो वरुणात्प्राप्तसहायको वरुणादनन्त For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy